________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कथितः।" कण्टिका वदति स्म-“का चिन्ता। मारय पुत्रम् । सुतमपि निर्दलयन्ति राज्यलुब्धाः । सुतो।। न सुतः। सुतरूपेण शत्रुरेव सः।” तद्वचनाद्दन्दुकः सुतं जिघांसामास । यावता घातयिष्यति तावता भोजमात्रा पाडलीपुरे स्वभातृणां शराणां राज्यश्रीस्वयंवरमण्डपानां स्नेहलानां धर्मज्ञानामग्रे प्रच्छन्नलेखेन ज्ञापित यथा-" एवमेव भवतां भागिनेयो विनंक्ष्यति ।” रुष्टो राजा। आगत्य एनं गृहीत्वागच्छत् । रक्षति जीववत्। मा स्माहं भवत्सु सत्सु निष्पुत्रोऽभूवम् इति । तेऽप्यागच्छन्, दुन्दुकमनमन् । उत्सवमिषेण भागिनेयं भोज गृहीत्वा पाटलीपुत्रमगमन् । तत्र तमपीपठन् । अलीललन् । शस्त्राभ्यासमचीकरन् । जीववदमंसत । तत्र तस्य पश्चाब्दी दिनैः कतिभिरप्यूनातिकामति स्म । कण्टिका दुन्दुकाने कथयति स्म-"देव! पुत्ररूपस्ते शत्रुर्मातृशाले वर्द्धते । नखच्छेद्यं पशुच्छेद्यं मा कुरु । अत्रानीय च्छन्नं यमसदनं नय।" राजाऽऽह-" सत्यमेतत् ततो दूत्तमुखेन भोज तन्मातुलेभ्योज्याचीत् । ते भोज नार्पयन्ति । पुनः पुनः स्वान्दूतान् दुन्दुकः प्रहिणोति । भोजमातुलाः प्राहु:-" राजन् ! वयं तव भावं विद्मः। नार्पयाम एवैनम् । धर्मपात्रमसौ। अन्योऽपि शरणागतो रक्ष्यः क्षत्रियः, किं पुनरीदृग् भगिनीपुत्रः।" भोजोऽपि तैः पितुर्दुष्टत्वं ज्ञापिता कवचहरः उपपितृ नैति । ततो दुन्दुकेन बप्पभटिसूरयः प्रार्थिता:-“यूयं गत्वा भोज सुतमनुनीयानयततमाम् ।" अनिच्छन्तोऽपि तत्सैनिकैः सह पाटलीपुत्र चेलु। अर्द्धमार्ग सम्माप्तः स्थित्वा विमृष्टं ज्ञानदृष्ट्या-"भोजस्ता
For Private And Personal