SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुविशति ॥४८॥ पुण्यलक्ष्म्याश्च कीर्तश्च विचारयत चारुताम् । स्वामिना सह यात्येका परा तिष्ठति पृष्ठतः॥१॥ प्रबन्धः अन्योऽप्येवंविधः कोऽपि भवतु । इत्येवंविधाभिर्वाग्भिर्दुन्दुकराजं सूरिराजो निःशोकमकार्षीत् । दुन्दुकः शनैः २ परमाहतोऽभूत् । राजकार्याणि अकार्षीत् । त्रिवर्ग स समसेविष्ट । एवं वर्तमाने काले | एकदा दुन्दुकश्चतुष्पथे गच्छन् कण्टिकां नाम गणिकामुदाररूपां चिद्रपां युवजनमृगवागुरां मदनमायामयी-| मालोकिष्ट । तां शुद्धान्तस्त्रीमकार्षीत् । तया दुन्दकस्तथा वशीकृतो यथा-" यदेव सा बदति तत्सत्यम् । यदेव सा करोति तदेव हितं मनुते । सा तु कार्मणकारिणी वाक्पटुः सर्व राज्यं असते हिमानीव चित्रम् , | भोजमातरं पद्मा नाम अन्या अपि राज्ञीरन्वयवतीविनयवतीर्लावण्यवतीस्तृणाय मनुते । एकदा कलाकेलि| म ज्योतिषिको निशि विसृष्टे सेवकलोके दुन्दुकराजं विजनं दृष्टवाऽवादीत्-“देव ! वयं भवत्सेवकत्वेन सुखिनः ख्याताः श्रीशाश्च । ततो यथातथं ब्रूम:-अयं ते भोजनामा तनयो भाग्याधिकस्त्वां हत्वा तव राज्ये निवेक्ष्यते । यथार्ह स्वयं कुर्वीथाः।” राजा तदवधार्य वजाहत इव क्षणं मौनी तस्थौ । ज्योतिषिकं विससर्ज। सा वार्ता भोजजननीसहचर्या दास्यैकया विपुलस्तम्भान्तरितया श्रुता। भोजमात्रे चोक्ता। सा पुत्रमरणाद्विभाय । राजापि कण्टिकागृहमगात् । सापि राजानं सचिन्तमालोक्यालापीत्-देव ! अद्य कथं म्लानबदनाः ?।” राजाऽऽह स्म-" किं क्रियते । विधिः कुपितः । पुत्रान्मे मृत्युानिना दृष्टप्रत्ययशतेन ||॥४८॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy