SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रवन्ध: ॥४०॥ वादित्राणि प्रादायिषत । खं स्वं स्थानं गताः सः । सूरिभूपो यशोधवलितसप्तभुवनी गोपगिरौ श्रीमहावीरमवन्दिषाताम् । तदा सूरिकृतं श्रीवीरस्य स्तवनम्-'शान्तो वेषः शमसुखफला' इत्यादि काव्यैकादशकमयमचापि सङ्घ पव्यते । सङ्घन प्रभुर्ववन्दे । तुष्टुषे च रवेरेवोदयः श्लाघ्यः कोऽन्येषामुदयग्रहः । न तमांसिं न तेजांसि यस्मिन्नभ्युदिते सति ॥१॥ अन्यदा स्वपरसमयसूक्तैः प्रयोध्य राजा प्रभुभिर्मद्यमांसादि सप्तव्यसननियमं कारितः। सम्यक्त्वमूलैकादशव्रतनिरतश्च पावकः कृतः । द्वादशं व्रतं स्वतिथिसंविभागाख्यं प्रथमचरमजिननृपाणां निषिद्धं सिद्धान्ते । एकदा लक्षणावत्यां बौद्धो वर्द्धनकुञ्जरो धर्मनृपमाह सगद्गदम्-" अहं पप्पमहिना जितस्तन्मे न दूषणम् । बप्पभट्टिर्हि भारती नररूपा, प्रज्ञामयः पिण्डः, गीपुत्रः, न च दुनोति । एतत्तु दुनोति यत्तव भृत्येनापि वाक्पतिराजेन सूरिकृतभेदान्मम मुखशोचोपायेन गुटीं हारयामहे । एतावदभिधाय स तारं तारं रुरोद । स निवारितः क्षमापेन रोदनात् । उक्तश्च किं क्रियते ? । अयं नश्चिरसेवकोऽनेकसमराङ्गणलब्धजयप्रतिष्ठः प्रबन्धकविः पराभवितुं न रोचते । क्षमस्वेदमस्यागः । ततो बौद्धो जोषं स्थितः। अपरशुर्यशोधर्मनाम्ना समीपदेशस्थेन बलवता भूपेन लक्षणावतीमेत्य रणे धर्मन्पो व्यापादितः।राज्यं जगृहे । वाक्पतिरपि बन्दीकृतः । तेन कारास्थेन गौडवधसंज्ञकं प्राकृतं महाकाव्यं रचयित्वा यशोधर्माय राज्ञे दर्शितम् । तेन ॥४०॥ TA For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy