SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः चतुर्विशति ॥ ९५॥ (२०) ॥ अथ लक्षणसेनस्य प्रबन्धः-मन्त्रिणः कुमारदेवस्य च ॥ | पूर्वस्या लक्षणावती पूः । तत्र लक्षणसेनो नाम प्रतापी न्यायी नृपः। तस्य द्वितीयमिव जीवितं मला विक्रमभक्तिसारो मन्त्री कुमारदेवः । विपुलं राज्यम् । अपारसैन्यम् । अत्रान्तरे वाराणस्यां गोविन्दचन्द्राख्यनूपपुत्रो जयन्तचन्द्रो राजा । तस्य विद्याधरो मन्त्री। महेच्छानां अन्नदानणां सत्यवादिनां च प्रथमः।। एकदा जयन्तचन्द्रसभायां वार्ता इयमासीत्-" यल्लक्षणावतीदुर्ग दुर्ग्रहं राजा महाचमूसमूहसम्पन्नः।" तां बार्तामवधार्य काशीपतिः प्रतिज्ञां सभासमक्षमग्रहीत-"इतश्चलित्वाऽस्माभिलक्षणावतीदुर्ग ग्रहीतव्यम् । अथ न गृह्णामि तदा यावन्ति दिनानि दुर्गतटे तिष्ठामे, तावन्ति हेमलक्षाणि दण्ड गृह्णामि । अन्यथा न निवत्त ।" इति सन्धां निर्माय प्रयाणढक्कामदापयत् । मिलितः समकालं राज़लोकः । जाता गजमयीय सृष्टिः । भूपालमालामयी च भूमिः । अश्वमयमिव जगत् । निर्गतं सैन्यं बहिः। अखण्डितः प्रयाणभन् परबलान् , शोषक्न सरांसि, पङ्कयन्नदीः, समीकुर्वन् विषमाणि, चूर्णयम् शिवराणि, लेखयन शासनानि, जीवयन् साधुलोकान् , लक्षणावती प्राप्तः। दुर्गालातिदुरासन्ने भूभागे आपासान् दापयामास । लक्षणसेनस्तु द्वाराणि पिधाय धर्मध्ये एव तस्थौ । क्षुभिता पुरी। सङ्कीर्णत्वमापनसन्नपाधोघृततैलवसनताम्बू ॥९ ॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy