________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailashsagarsuri Gyanmandir
P
प्रबन्ध
चतुविशात ॥२५॥
हेमीककनीकामेको दिव्यरत्नविभूषिताम् । रङ्कपुत्रीकरे दृष्ट्वा याचते स्म नृपात्मजा ॥ ६२॥ तां न दत्ते पुना रङ्को राजा तं याचते बलात् । तेनैव मत्सरेणासौ म्लेच्छसैन्यमुपानयत् ।। ६३ ॥ भग्ना पूर्वलभी तेन संजातमसमञ्जसम् । शिलादित्यः क्षयं नीतो वाणिजा स्फीतऋद्धिना ॥ ६४ ॥ ततोऽथाकृष्य वणिजा प्रक्षिप्ता अरिणे शकाः । तृष्णाया ते स्वयं मृत्वा हतो व्याधिर्महानयम् ॥६५॥ विक्रमादित्यभूपालात्पश्चर्षित्रिकवत्सरे । जातोऽयं बलभीमको ज्ञानिनः प्रथमं ययुः ॥६६॥ खवर्मना गतान्यहद्विम्बानि विषयान्तरम् । देवताधिष्ठितानां हि चेष्टा सम्भविनी तथा ॥ ७॥ एतच्च प्रथमं ज्ञात्वा मल्लवादी महामुनिः । सहितः परिवारेण पश्चासरपुरीमगात् ॥ ६८॥ नागेन्द्रगच्छसत्केषु धर्मस्थानेष्वभूत्प्रभुः। श्रीस्तम्भनकतीर्थेऽपि सङ्घस्तस्येशतामधात् ॥ ६९॥
श्रीमल्लवादिचरितं जिनशासनीयतेजासमुन्नतिप्रवित्रमिदं निशम्य । भव्याः ! कवित्ववचनादिविचित्रलब्धिबातैः प्रभावयत शासनमार्हतं भोः ॥७॥
॥ इति श्रीमल्लवादिचरित्रम् ॥
॥२५॥
For Private And Personal