SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गुणसेनसूरिः । श्रीयशोभद्रसूरिपादास्त्रयोदशोपवासा रैवते नेमिनाथदृष्टौ कृतानशनाः स्वर्लोकमैयरुः ।। गुणसेनसरिपट्टे श्रीदेवचन्द्रसूरयः ठाणांगवृत्ति-शान्तिनाथचरितादिमहाशास्त्रकरणनियूंढप्रज्ञाप्रागभाराः। ते विहरन्तो धन्धुक्कपुरं गूर्जरधरासुराष्ट्रासन्धिस्थं गताः। तत्र देशनाविस्तरः। एकदा नेमिनागनामा श्रावकः समुत्थाय श्रीदेवचन्द्रसूरीन् जगौ-" भगवन् ! अयं मोढज्ञातीयो मद्भगिनीपाहिणिकुक्षिभूः ठक्करचाचिगनन्दनश्चङ्गदेवनामा भवतां देशनां श्रुत्वा प्रवुद्धो दीक्षां याचते। अस्मिंश्च गर्भस्थे मम भगिन्या सहकारतरुः दृष्टः । स च स्थानान्तरे उप्तस्तत्र महती फलस्फातिमायाति स्म ।” गुरव आहु:-" स्थानान्तरगतस्यास्य महिमा प्रैधिष्यते । महत्पात्रमसौ योग्यः सुलक्षणो दीक्षणीयः। केवलं पित्रोरनुज्ञा ग्राह्या।” गतौ मातुलभागिनेयौ पाहिणिचाचिगान्तिकम् । उक्ता व्रतवासना । कृतस्ताभ्यां प्रतिषेधः करुणवचनशतैः। चाङ्गदेवो दीक्षां ललौ । स श्रीहेमसूरिः प्रभुः। तेन यथा श्रीसिद्धराजो रञ्जितः, व्याकरणं कृतम् , वादिनो जीताः। | यथा च कुमारपालेन सह प्रतिपन्नम् । कुमारपालोपि यथा पञ्चाशद्वर्षदेशीयो राज्ये निषण्णः। यथा हेमसूरयो गुरुत्वेन प्रतिपन्नाः। तैरपि यथा देवबोधिः प्रतिपक्षः पराकृतः। राजा सम्यक्त्वं ग्राहितः श्रावकः कृतः। | निराधनं च मुमोच सः। तत्प्रबन्धचिन्तामणितो ज्ञेयम् । किं चर्वितचर्वणेन ? । नवीनास्तु केचन प्रबन्धाः प्रकाश्यन्ते-कुमारपालेन अमारौ प्रारब्धायां आश्विनशुदिपक्षः समागात् । देवतानां कण्टेश्वरीप्रमुखाणां For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy