________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुर्विशति
॥५२॥
अबोटिकैर्नृपो विज्ञप्तः-“देव ! सप्तम्या सप्तशतानि पशवः सप्त महिषाः, अष्टम्यां अष्ट महिषा अष्टौ | शतानि पशवः, नवम्यां तु नवशतानि पशवो नव महिषाः, देवीभ्यो राज्ञा देया भवन्ति पूर्वपुरुषक्रमात् ।”|G राजा तदाकर्ण्य श्रीहेमान्तिकमगमत् । कथिता सा वार्ता । श्रीप्रभुभिः कर्ण एवमेवमित्युक्तम् । राजोत्थितः। भाषितास्ते-“देयं दास्यामः।” इत्युक्त्वा बहिकाक्रमेण रात्री देवीसदने क्षिप्ताः पशवः । तालकानि दृढीकृतानि । उपवेशितास्तेषु प्रभूता आप्तराजपुत्राः। प्रातरायातो नृपेन्द्रः। उद्घाटितानि देवीसदनद्वाराणि । मध्ये दृष्टाः पशवो रोमन्थायमाना निर्वातशय्यामुस्थाः। भूपालो जगाद-"भो अबोटिकाः! एते पशवो मयाऽमूभ्यो दत्ताः। यदि अमूभ्यो रोचिष्यन्ते ते तदा ग्रसिष्यन्ते । परं न ग्रस्ताः। तस्मान्नामूभ्योऽदः पललं रुचितम् । भवभ्य एव रुचितम् । तस्मात्तूष्णीमाध्वम् । नाहं जीवान् घातयामि । स्थितास्ते विलक्षाः। मुक्ता छागाः। छागमूल्यसमेन तु धनेन देवेभ्यो नैवेद्यानि दापितानि । अथाश्विनशुक्लदशम्यां कृतोपवासः क्ष्मापो निशि चन्द्रशालायां ध्याने उपविष्टो जपति । बहिर्दास्थाः सन्ति । गता बही निशा । स्त्र्येका दिव्या प्रत्यक्षाऽऽसीत् । उक्तस्तया सः-"राजन् ! अहं तव कुलदेवी कण्टेश्वरी। किमिति त्वया नास्मद्देयं दत्तम् ।" | राज्ञोक्तम्-"जैनोऽहं दयालुः पिपीलिकामपि न हन्मि । का कथा पञ्चेन्द्रियाणाम् ।" तच्छुत्वा कण्टेश्वरी क्रुद्धा राजेन्द्र त्रिशूलेन शिरसि हत्वा जग्मुषी। राजा कुष्टी जातः। दृष्टं स्ववपुर्विनष्टम् । विषण्णः। भृत्येन
॥५२॥
For Private And Personal