________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मन्त्रिणमुदयनमाकार्य तत्स्वरूपं निगद्य पप्रच्छ-" मन्त्रिन् ! देवी पशून्याचति। दीयन्ते नवा।” मन्त्री दाक्षिण्यादाह-"देव ! राजा यत्नेन रक्ष्य एव ।" भूपो न्यगादीत्-"निःसत्त्वो वणिगसि। यदेवं ब्रूषे । मम किं कार्य जीवितेन ?। कृतं राज्यम् । लब्धो धर्मः। हताः शत्रवः । केवलं काष्टानि देहि रहः । येन प्रातर्मामीदृशं दृष्ट्वा लोको धर्मे नोड्डाहं करोति । उदयनेन चिन्तितम्-"अहो! महत्कृच्छ्रमापतितम् । पारवश्यभूलं नियोगं धिक् ।” मन्त्रिणोक्तं सद्यो बुद्धिवशात्-“श्रीहेमसूरयो विज्ञप्यन्ते ।” राज्ञोक्तम्-“तथाऽस्तु।" गतो मन्त्री उपमृरि । मृरिभिर्जलमभिमन्च्यार्पितम् । अनेन राजाऽऽच्छोट्य इति । सचिवेन तथा चके राज्ञः।। राजा दोगुन्दुकदेव इव दिव्यरूपः सम्पन्नो भक्तश्च समधिकं श्रीगुरूं वन्दितुं ययौ । गुरुर्देशनां रने
शराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः ___ सन्ति श्रीपतयो निरस्तधनदारतेऽपि क्षिती भूरिशः। किन्त्वाकर्ण्य निरीक्ष्य वाऽन्यमनुजं दुःखादितं यन्मन
स्तद्रपं प्रतिपद्यते जगति ते सत्पूरुषाः पश्चषाः ॥१॥ राजा स्वावासं गतः । राज्यं समृद्धं भुनक्ति । एकदा प्रभुभिर्भरतस्य चक्रिणः साधर्मिकवात्सल्यकथाकथि । तां श्रुत्वा भूपः साधर्मिकवात्सल्यं दिव्यभोजनवसनकनकदानः प्रतिगामं प्रतिपुरं प्रारंभे । तद् ।
-
For Private And Personal