SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः चतुविशति ॥७३॥ दपि सम्भोगकेलिमकलयत् । भवितव्यताविलसितेन तस्याः सप्तधातुरहितस्यापि तस्य दिव्यशक्त्या शुक्रपुद्गलसञ्चारादूगर्भाधानमभवत् । स्वनामधेयं प्रकाश्य व्यसनसङ्कटे मां स्मरेरित्यभिधाय च नागराजः पाताललोकमग्रमत् । सा च गृहं प्रत्यगच्छत् । व्रीडापीडिततया च स्वभ्रात्रोस्तं वृत्तान्तं न खलु न्यवेदयत् । कालकमेण सहोदराभ्यां गर्भलिङ्गानि वीक्ष्य सा जातगर्भा इत्यलक्ष्यत । ज्यायसस्तु मनसि शङ्का जाता-'यदि खलु कनीयसोपभुक्ता' इति, शङ्कनीयान्तराभवात् । यवीयसोऽपि समजनि विकल्प:- नूनमेषा ज्यायसा सह. विनष्टशीला' इति । एवं मिथः कलुषिताशयौ विहाय तामेकाकीनी पृथक् पृथग् देशान्तरमयासिष्टाम् ।। सापि प्रवर्द्धमानगर्भा परमन्दिरेषु कर्माणि निर्मिमाणा प्राणवृत्तिमकरोत्। क्रमेण पूर्णेऽनेहसि सर्वलक्षणरधिताङ्गं प्रास्त सुतम् । स च क्रमाद्वपुषा गुणैश्च वर्द्धमानः सवयोभिः सह रममाणो बालक्रीडया स्वयं भूपतीभूय तेभ्यो वाहनानि करितुरगरथादीनि कृत्रिमाणि दत्तवान् । इति सनोतेदानार्थत्वाल्लोकः 'सातवाहनः' इति व्यपदेशं लम्भितः । खजनन्या पाल्यमानः सुखमवस्थितः। इतश्चोजपिन्यां श्रीविक्रमादित्यस्यावन्तिनरेशितुः सदसि कश्चिनैमित्तिकः सातवाहनं प्रतिष्ठानपुरे भाविनं नरेन्द्रमादिशत् । अथैतस्यामैव पुर्यामेकः स्थविरविप्रः स्वायुरवसानं ज्ञात्वा चतुरः स्वतनयानाहूय | प्रोक्तवान् यथा "वत्सा! मयि मृते मदीयशग्योच्छीर्षकदक्षिणपादादारभ्य चतुर्णामपि पादानामधोवर्तमानं ॥७३॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy