________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रियादर्शनमेवास्तु किमन्यैर्दर्शनान्तरैः । प्राप्यते येन निर्वाणं सरागेणापि चेतसा ॥२॥ सन्दष्टाधरपल्लवा सचकितं हस्ताग्रमाधुन्वती मा मा मुश्च शठेति कोपवचनैरानतितभूलता। सीत्काराश्चितलोचना सरभसं यैश्चुम्बिता मानिनी प्राप्तं तैरमृतं श्रमाय मथितो मूढैः सुरैः सागरः॥१॥ इत्यादि दृष्ट्वा तस्थौ तूष्णीं गुरुः । मदनकीर्तिस्तु व्यलासीद्विविधम् ॥
॥ इति मदनकीर्तिप्रबन्धः॥
-
अथ सातवाहनप्रबन्धःइह भारते वर्षे दक्षिणखण्डे महाराष्ट्रदेशावतंसं श्रीमत्प्रतिष्ठानं नाम पत्तनं विद्यते। तब निजभूत्याभिभूतपुरन्दरपुरमपि कालान्तरेण क्षुल्लकग्रामप्रायमजनिष्ट। तत्र चैकदा द्वौ वैदेशिकद्विजो समामत्य विधवया खस्रा साकं कस्यचित् कुम्भकारस्य शालायां तस्थिवांसी। कणवृत्तिं विधाय कणान् स्वसुरुषनीय तस्कृताहारयाकन समया कुरुतः स्म। अन्येशु सा तयोर्विप्रयोः स्वसा जलाहरणाय गोदावरी गता। तस्याः स्वरूपमप्रतिरूपं निरूप्य मरपरवशोऽन्तहृदवासी शेषो नाम नागराजो हदानिर्गत्य विहितमनुष्यवपुस्तया सह पला-||
For Private And Personal