SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रबन्ध ॥७२॥ मुच्यतां प्रसद्य दिग्वस्त्रः । इयं वास्यैव भवतु।" इति श्रुत्वा ते मुक्त्वा तां तस्यैव पत्नीमकरोत् । स सेच राज्यांशभाजनं कृतः । दिग्जयधनानि च श्वशुरसाचकार । व्रतं त्यक्त्वा भोगी जातः । तादृशं वृत्ता |न्तं विशालकीर्तिगुरुरुजयिन्यामश्रोषीत् । अध्यासीच्च । “अहो । यौवनधनकुसङ्गनां महिमा । येनायमेवंवि| धोऽपि व्रती विद्वान् वादी योगज्ञो भूत्वा एवंविधं उग्रदुर्गतिपतनमूलं कुपथं प्रपन्नः। हा! हा! धिग् परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् । विवेकप्रध्वंसादुपचितमहामोहगहनो विकारः कोऽप्यन्तजंडयति च तापं च तनुते ॥१॥ एवं विमृश्य चतुरांश्चतुरः शिष्यांस्तद्वोधनाय प्राहैषीत् । तैस्तत्र गत्वोक्तोऽसौ"विरमत बुधा योषित्सङ्गात्सुखात् क्षणभङ्गुरात् कुरुत करुणाप्रज्ञामैत्रीवधूजनसङ्गम न खलु नरके हाराकान्तं घनस्तनमण्डलं भवति शरणं श्रोणीबिम्बं रणन्मणिदाम वा ॥१॥ इत्यादि गुरुभिवोंध्यमानोऽसि । बुध्यस्व । मामुहः।” सोऽथ निरपतया तेषां हस्ते गुरुभ्यः पद्यानि पत्रे लिखित्वा प्रजिघाय । गतास्ते तत्र । वाचितानि पद्यानि गुरुणा तको प्रतिष्टः श्रुतयोबिभिन्नाः नासौ गुरुर्यस्य वचः प्रमाणम् । धर्मस्य तत्वं निहितं गुहायां महाजनो येन गत स पन्थाः ॥१॥ - || ७२॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy