________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
चतुर्षिशति
प्रवन्धः
॥१४॥
|'म्याउं' इति बिडालशब्दः कृतः। ततो दर्शनं दत्तम् । वादिनः पादयोः पेतुः प्रभोः । “अहो ! प्रत्युत्पन्न| मतित्वम् ते, चिरं जय बालभारति"। ततः आरब्धा प्रभुणा तैः सह गोष्ठी । तेष्वेकेन पृष्टम्पालित्तय ! कहसु फुडं सयलं महिमंडलं भमंतेण । दिळं सुयं च कत्थवि चंदणरससीयलो अग्गी ॥१॥
प्रभुणाऽभाणिअयसाभिओगसं दूमियस्स पुरिसस्स सुद्धहिययस्स । होइ वहंतस्स दुहं चंदणरससीयलो अग्गी ॥१॥
तुष्टास्ते वादिनस्तुष्टुवुः-"साक्षादमरगुरुरेव त्वम् , धन्या ब्राह्मी, या ते वदने वसति ।”
इतश्च ये पूर्व ब्राह्मणाः खपटाचार्यगच्छीयेनोपाध्यायेन माहेन्द्रण भाषिताः, ते बलात्केचित्प्रवाजिताः | तेषां स्वजनाः पाटलिपुत्रपत्तने वसन्ति । पूर्ववैराज्जैनयतीनुपद्रवन्ति । सा च वार्ता प्रभुश्रीपादलिप्ताचायः श्रुता । स्वयं ते गगनेन तत्र गताः, अभ्यदधुश्च-"रे ! मयि वीरे सति के नाम जैनजनमुपद्रवन्ति ? जर्जराऽपि यष्टिः स्थालीनां भञ्जनाय प्रभवत्येव । ” ततस्ते काकनाशं नष्टाः । प्रभुः पुन गुपुरमगमत् । तत्रार्यखपटसम्प्रदायात्सकलाः कलाः प्रजग्राह । ढंकपर्वते नागार्जुनः प्रभुणा खगमनविद्यां शिक्षापितः परमाहतोजनि। सेन पादलिप्तकपुरं नव्यं कृतम् दशाहमण्डपोग्रसेनभवनादि च तत् तत्र तत्र प्रभुणा गाथा युगलेन स्तवनं
॥१४॥
For Private And Personal