________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुविशात
प्रबन्धः
सुवर्णसिद्ध्या चोपकारैश्वर्य तदा निरुपममासीत्। ततो विक्रमो धन्य एव । तताधिकास्तु परः कोटयोऽभूवन्।" इत्याकर्ण्य विक्रमसेनो विवेकी अभूत् ॥
॥ इति विक्रमादित्यप्रबन्धः॥
(१८)
अथ नागार्जुनप्रबन्धःढण्कपर्वते सुराष्ट्राभूषणशत्रुञ्जयगिरिशिखरैकदेशरूपे राजपुत्ररणसिंहस्य भोपालनानी पुत्री रूपलाव|ण्यसम्पूर्णा पश्यतो जातानुरागस्य सेवमानस्य वासुकिनागस्य पुत्रो नागार्जुननामा जातः । स च जनकेन पुत्रलेहमोहितेन सर्वासां महौषधीनां फलानि मूलानि दलानि च भोजितः। तत्प्रभावेन स महासिद्धिभिरलतः सिद्धपुरुष इति विख्यातः । पृथ्वीं विचरन् पृथ्वीस्थानपत्तने सातवाहनस्य राज्ञः कलागुरुर्जातः। स च गगनगामिनी विद्याध्ययनार्थ प्रालित्तानकपुरे पादलिप्ताचार्यान् सेवते । अन्यदा भोजनावसरे पादप्रलेप
॥९१॥
For Private And Personal