SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsagarsuri Gyanmandi सम्भाव्यते-यद्देवोऽस्मानुपतिष्ठते । किं कारणमागमनस्य ?।" श्रीरामः प्राह-"त्वत्पुत्र्याः श्वसुरकुले प्रेषणायायाताः स्मः। तस्या हि वराक्यास्तथाविधा संधाऽस्ते ।" ततो हृष्टस्तजनकः। अपवरकं गत्वा दुहितरमाह स्म-"मुग्धिके! तव प्रतिज्ञा पूर्णा । श्रीरामदेवो आयातः सदेवीकः। एहि वन्दस्वतं जगत्पतिम्।” ततस्तुष्टा रामान्तिकमागता। ववन्दे तम् । आलापिता प्रजातातेन-"वत्से ! गच्छ श्वसुरमन्दिरम् ।" तया भणितम्"आदेशः प्रमाणम् ।” गता पतिगृहम् । रामः स्वस्थानमायासीत् । श्रीविक्रम ! अस्या द्वितीया उपानत् तत्र पितृगूहे खन्यमाने लप्स्यते । स्वामिन् ! आयाहि तत्वान्यते । गतो राजा तत्र । खानितं तत् । लब्धा द्वितीयाप्युपानत् । दृष्टं हैमगृहम् । एवमन्यान्यपि तेन विप्रेण खानयितानि । लातं तद्धेम। राज्ञा विप्रः | पृष्टः-"कथमीदृशं सम्यग्जानासि । विप्रेण गदितम्-" पूर्वजपारम्पर्योपदेशात् ज्ञातं तुभ्वमुक्तं च । परं गर्व मा धाः । स रामः स एव । तस्य स्वाज्ञया जलज्वलनौ स्तम्भेते स्म । पतन्त्यो भित्तयोर्दत्तायां तदाज्ञायां न पेतुः। लूता द्विचत्वारिंशत् अन्धगडाः सप्तविंशतिः स्फोटिका अष्टोत्तरशतं विड्वराणि दोषाश्च सर्वे व्यनेशन् । या तु तद्देवी सीता ये त्रयस्तद्भातरो ये तभृत्या हनूमत्सुग्रीवादयस्तेषां महिमानं वर्षशतेनापि वाक्पतिरपि वक्तुं न शक्तः।" इति श्रुत्वा विक्रमेण गर्वो मुक्तः। बिरुदं निषिद्धं 'अभिनवरामः' इति । पुनरुज्जयिनीमागात् । यथाशक्ति लोकमुदधरत् । तस्य हि अग्निवेतालपुरुषकसिद्धिभ्यां For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy