SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः चतुर्षिचति ॥२९॥ यैः सर्वैः शरदेन्दुकुन्दविशदैः प्राप्सैरपि प्राप्यते भूयोऽप्यन्त्र पुरन्ध्रिरन्ध्रनरकक्रोडाधिवासव्यथा ॥१॥ ततो ज्ञाततनिश्चयाभ्यां तन्मातरपितृभ्यां जल्पितम्-"भगवन् ! गृहाण पात्रमेतत् । परं ‘वप्पमहिः इति नामास्य कर्त्तव्यम् ।" गुरुभिर्भणितम्-"एवमस्तु। कोत्र दोषः। पुण्यवन्तौ युवाम् । ययोरयं लाभः सम्पन्न ।" बप्पभटी आपृच्छय सूरपालं गृहीत्वा सिद्धसेनाचार्या मोढेरकं गताः। | शताष्टके वत्सराणां गते विक्रमकालतः। सप्ताधिके राधशुक्लतृतीयादिवसे गुरौ ॥११॥ दीक्षा दत्ता। 'बप्पभहिः' इति नाम विश्ववल्लभं जुघुषे । सङ्घप्रार्थनया तत्र चतुर्मासकं कृतम् । अन्यदा यहिभूमिं गतस्य बप्पभमहतीं वृष्टिमतनिष्ट घनः । क्वापि देवकुले स्थितः सः। तत्र देवकुले महाबुद्धः कोऽपि पुमान् समागतः। तत्र देवकुले प्रशस्तिकाव्यानि रसाढ्यानि गम्भिरार्थानि तेन बप्पभटिपा द्वधाख्यापितानि । ततः स बप्पमहिना समं वसतिमायातः। गुरुभिराशिर्भिरभिनन्दितः। आम्नायं स पृष्टः। ततोऽसौ जगाद-"भगवन् ! कन्यकुब्जदेशे गोपालगिरिदुर्गनगरे यशोवर्मनृपतेः सुयशोदेवीजन्मा नन्दनोऽहं यौवनेन निरर्गलं धनं लीलया व्ययन पित्रा कुपितेन शिक्षितः-'वत्स ! धनार्जकस्य कृच्छ्मस्थानव्ययी पुत्रो न वेत्ति तातस्य । मितव्ययो भव । ततोऽहं कोपादिहागमम् ।” गुरुवोऽप्यूचुः-किं ते नाम ?। तेनापि ॥२९॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy