________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
खटिकया भुवि लिखित्वा दर्शितम् । 'आमः' इति । महाजनाचारपरं परेदशी स्वनाम नामाददते न साधवः। तस्यौनत्येन गूरवो हृष्टाः । चिन्तितं च तैः-"पूर्वं श्रीरामसैन्ये ग्रामे दृष्टोऽसौ पाण्मासिकः शिशुः।
पीलुवृक्षमहाडाल्यां वस्त्रदोलकमास्थितः। अचलच्छायया च पुण्यपुरुषो निर्णितः॥ ततस्तजननी वन्यफलानि विचिन्वानाऽस्माभिर्भणिता-'वत्से! का त्वम् । किं च ते कुलम् ।' साऽवादीत् निजं कुलम्-'अहं राजपुत्री कन्यकुब्जेशयशोवर्मपत्नी सुयशा नाम । अहमस्मिन्सुते गर्भस्थे सति दृढकार्मणवशीकृतघवया यत्कृतप्रमाणयाऽकृत्यये च क्रूरया सपत्न्या मिथ्या परपुरुषदोषमारोप्य गृहानिष्कासिता। अभिमानेन श्वशुरकुलापतृकुले हित्वा भ्रमन्तीह समागता वन्यवृत्त्या जीवामि । बालं च पालयामि ।" इदं श्रुत्वाऽस्माभिर्मा उक्ता-"वत्से ! अस्मचैत्यं समागच्छ स्वं वत्सं वर्द्धय । तया तथा कृतम् । सपत्न्यपि बहुसपत्नीकृतमारणप्रयोगेण ममार। ततो विशिष्टपुरुषैः कन्यकुब्जेशो यशोवर्मा विज्ञप्त:-"देव! सुयशा राज्ञी निर्दोषाऽपि तदा देवेन सपत्नीवचसा निष्कासिता सा प्रत्यानीयते" । राज्ञा सा स्वसौधमानायिता सपुत्रा गौरविता च।
अन्यदा विहरन्तो वयं तस्या देशं गताः। तया पूर्वप्रनिपन्नं स्मरन्त्या वयं वन्दिताः पूजिताः।
For Private And Personal