SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir किं यशः। यशो विना जीवितव्यमपि नास्त्येव । तस्मात् कुर्मः समुचितम् ।” तैरपि सप्तभिस्तद्वचोऽभिमतम् । व्याघुटिताऽष्टौ नन्ति नाराचादिभिः परसेनाम् । तावन्मात्रं स्ववृन्दं सङ्घटितं दृष्ट्वा अपरेऽपि सत्त्वं | धृत्वा वलिताः। तदा तेजःपाल: एकत्र निजांसेऽम्बिकादेवीं अपरत्र कपर्दियक्षं पश्यति । अतो जयं निश्चित्य प्रहरंस्तावद्ययौ यावद् घूघुलः । गत्वा भाषितः-" हे मण्डलिक ? येनास्मन्नाथाय कज्जलगृहादि प्रहीयते । तद्भुजायलं दर्शय ।” घुघूलोऽपि प्रत्याह-" इदं तद्भुजा बलं पश्य" इत्युक्त्वा निबिडं युयुधे। द्वन्द्वयुद्धं मन्त्रिमण्डलीकयोः सञ्जातम् । अथ मन्त्री सहसा दैवतबलभुजावलाभ्यां तमश्वादपीपतत् । जीवन्तं बद्ध्वा | काष्टपञ्जरेऽचिक्षिपत् । स्वसेनान्तर्निनाय । स्वयं बहुपरिच्छदो गोध्रानगरं प्रविवेश । अश्वसहस्राणि चत्वारि, || अष्टादश कोटीहेम्नां कोशं, मूटकं शुद्धमुक्ताफलानां, दिव्यास्राणि, दिव्यवस्त्राणि, इत्यादि सर्व जग्राह । घूघुलस्थाने आत्मीयं सेवकं न्यास्थत् । चलितो मन्त्री गतो धवलक्कके । श्रीवीरधवलेन महत्यां सभायामाकार्य श्रीतेजःपालः परिधापितः। प्रसादपदे स्वर्ण भूरि ददे। तदवसरे कवीश्वरसोमेश्वरे च हक सञ्चारिता श्रीवीरधवलेन । ततः सोमेश्वरदेवः प्राह मार्गे कईमदुस्तरे जलभृते गर्ताशतैराकुले खिन्ने शाकटिके भरेऽतिविषमे दूरं गते रोधसि। शब्देनेतदहं ब्रवीमि महता कृत्त्वोच्छितां तर्जनीमीदृक्षे गहने विहाय धवले वोढुं भरं कः क्षमः? ॥१॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy