SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 'प्रबन्ध चतुर्विशति ॥११४॥ को ग्रहीष्यति ।” परं कोऽपि नाद्रियते । तदा तेजःपालेन गृहीतम् । चलितः प्रौढसैन्यपरिच्छदः । गतस्तद्वेशादर्वाग्भागे । कियत्यामपि भुवि स्थित्वा सैन्यं कियदपि स्वल्पमग्रे प्रास्थापयत् । स्वयं महति मेलापके गुप्तस्तस्थौ । अल्पेन सैन्येनाग्रे गत्वा गोध्रगोकुलानि वालितानि । गोपालाः शरैस्ताडिताः । तैरन्तगोंधक पूत्कृतम्-" गावो ह्रियन्त कैश्चित् । क्षात्रं धर्म पुरस्कृत्य ततो धावत धावत ।" इति शब्दे श्रुते घूघुलो व्यचिन्तयत्-" नवीनमिदम् । केनास्मत्पद्रमागत्य गावो ह्रियन्ते । वृत्तिच्छेदविधौ द्विजातिमरणे स्वामिग्रहे गोग्रहे सम्प्राप्ते शरणे कलत्रहरणे मित्रापदां वारणे । आर्त्तत्राणपरायणैकमनसां येषां न शस्त्रग्रहस्तानालोक्य विलोकितुं मृगयते सूर्योऽपि सूर्यान्तरम् ॥१॥ इति वदन्नेव ससेनस्तुरङ्गममारूढो गतोऽनुपदं गोहतणाम् । गोहारोऽपि घुघुलाय दर्शनं ददते शरान् सन्दधते । न च स्थित्वा युद्ध्यन्ते । इत्येवं खेदयद्भिस्तैस्तावन्नीतो घूघुलः यावन्मन्त्रिणो महति वृन्दे प्रविष्टः। ततो ज्ञातमीदृशं छद्मदं मन्त्रिणः । भवतु तावत् घूघुलोऽस्मि । निजाः सुभटाः समराय प्रेरिताः । स्वयं सविशेषमभियोगं दधौ । ततो लग्नः संहर्तुम् । मन्त्रिकटकेनापि डुढाके । चिरं रणरसरभसोऽभूत् । भग्नं घूधुलेन मन्त्रिकटकं कान्दिशीकं दिशोर्दिशं गच्छति। तदा मन्त्रितेजःपालेन स्थिरं अश्वस्थितेन तटस्थाः सप्तकुलीनाः शुद्धराजपुत्राः भाषिता:-" अरिस्तावली। आत्मीयं तु भग्नं सकलं बलम् । नष्टानामस्माकं का गतिः। For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy