________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भ्राता स च मदनोन्मदिष्णुर्मग्रज प्रतिष्ठानाधिपतेः सातवाहनस्य मृपतेर्महिषी वांछनपाहरत् सीतामिव दशवदनः । सा च पतिव्रता तन्नेच्छति । तदनुमोक्तो अग्रजन्मा-"न युज्यते परदाराऽपहरणं तव ।
किक्रमाकान्तविश्वोsपि परस्त्रीषु रिम्सया । कृत्वा कुलक्षयं प्राप नरकं दशकन्धरः॥१॥ इत्यादिवाग्भिनिषिद्धः कुद्धो मह्यं भायासुरोऽस्यां वदशाखायां टंकित्वा मामित्थं व्यडम्बयत् । अहं च प्रसारितवदनः समुद्रान्तः संचरतो जलचरादीनभ्यवहरन्प्राणयात्रां करोमि।" इति श्रुत्वा शूद्रकोऽप्यभाणीत्-"अहं तस्यैव महीभृतो भृत्यः शूद्रकनामा तामेव देवीमन्वेष्टुमागतोऽस्मि ।" तेनोक्तम्-"एवं चेत्तर्हि मां मोचय । यथाऽहं सह भूत्वा तं दर्शयामि तां च देवीम् । तेन स्वस्थानं परितो जातुषं दुर्ग कारितमस्ति । तब निरन्तरं प्रज्वलदेवास्ति ततो दुर्लक्ष्यम् । तन्मध्ये प्रविश्य तं निपात्य देवी प्रत्याहर्तव्या।" इत्याकर्ण्य शूद्रकस्तेन कृपाणेन तत्काष्ठबन्धनानि च्छित्वा तं पुरोधाय दैवतगणपरिवृत्तः प्रस्थाय प्राकारमुल्लंघ्य तत्स्थानान्तः प्राविशत् । दैवतगणांचालोक्य मायासूरः स्वसैन्यं युद्धाय प्रजिधाय । तस्मिन्पश्चतानञ्चिते स्वयं योद्धमुपतस्थौ । ततः क्रमेण शूद्रकस्तेनासिना तमवधीत् । ततो घण्टावलम्बिविमानमारोप्य देवी देवतगणैः सह प्रस्थितः प्रतिष्ठानं प्रति । इतश्च दशमं दिनमवधीकृतमागतमवगत्य जगत्यधिपतिर्ध्यातवान-"अहो मम न महादेवी न च शूद्रकवीरो न चापि तो रसनालिहौ सर्व मयैव कुबुद्धिना विनाशितम् ।" इति शोचनात्स
For Private And Personal