SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पतुर्विशति प्रबन्ध ॥७८॥ प्रेषितः स्वभ्राता कोल्लासुरनामा होमप्रत्यूहकरणाय । समागतश्च बियति कोल्लासुरः स्वसेनया समम् ।। दृष्टास्वदैवतगणैः। चकितं च तैः। ततो भषणौ दिव्यशक्त्या युयुधाते दैत्यैः सह । क्रमान्मारितौ च तौ दैत्यैः । ततः शुद्रकः स्वयं योढुं प्रावृतत् । क्रमेण दण्डव्यतिरिक्तप्रहरणान्तराभावाद्दण्डेनैव बहूनिधनं नीतवानसुरान् । ततो दक्षिणबाहुं दैत्यास्तस्य चिच्छिदुः। पुनर्वामदोष्णैव दण्डयुद्धमकरोत् । तस्मिन्नपि छिन्ने दक्षिणांहिणोपात्तदण्डो योद्धं लग्नः। तत्रापि दैत्यैलूने वामपादात्तयष्टिरयुध्यत । तमपि क्रसादच्छिदन्नसुराः।। ततो दन्तैर्दण्डमादाय युयुधे । ततस्तमस्तकमच्छेदि । अथाकण्ठतृप्तादैवतगणास्तं शूद्रकं भूमिपतितशिरस्कं दृष्ट्वा अहोऽस्मद्भुक्तिदातुर्वराकस्यास्य किं जातम् ? । इति परितप्य योद्धं प्रवृत्ताः कोल्लासुरममारयत् । ततः श्रीदेव्याऽमृतेनाभिषिच्य पुनरनुसंहिताङ्गश्चके । शूद्रका प्रत्युज्जीवितश्च सारमेयायपि पुनर्जीवितौ। देवी च प्रसन्ना सती तस्मै खङ्गरत्नं प्रादात् । अनेन त्वमजय्यो भविष्यसीति च बरं व्यतरत् । ततो महालक्ष्म्यादिदैवतगणैः सह सातवाहनदेव्याः शुध्यर्थं समग्रमपि भुवनं परिभ्रम्य प्राप्तः शूद्रको महार्णवम् । तत्र चैकं वटतरुमुच्चैस्तरं निरीक्ष्य विश्रामार्थमारोह यावत् । तावत्पश्यति तच्छाखायां लम्बमानमधः शिरसं काष्टकिलिकाप्रवेशितोऽर्द्धपादं पुरुषमेकम् । स च प्रसारितजिह्वोऽन्तीरं विचरतो जलचरादीन् भक्षयन् वीक्षितस्तैः । पृष्टश्च शूद्रकेण-"कस्त्वं ? । किमर्थ चेत्थं लम्बितोऽसि ।" तेनोक्तम्-"अहं मायासुरस्य कनिष्टो ॥७८॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy