________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कृपव्यापारपापेभ्यः सुकृतं स्वीकृतं न यैः। तान धूलिधावकेभ्योऽपि मन्ये मूखतरान नरान् ॥ २॥"
इत्यादि विमृश्य तेजःपालेन नित्यभक्तेन सांमत्यं कृत्वा मलधारिश्रीनरचन्द्रमूरिपादानपृच्छत्| " भगवन् ! या मे चिन्ताऽधुना वर्तते सा निष्पत्यूह सेत्स्यति?" प्रभुभिः शास्त्रज्ञकिरीटैरुक्तम्-"जिन| यात्राचिन्ता वर्तते, सा सेत्स्यति ।" वस्तुपालेन गदितम्-" तर्हि देवालये वासक्षेपः क्रियताम् ।” तदा श्रीनरचन्द्रसूरयः प्राहु:-“मन्त्रीश ! वयं ते मातृपक्षे गुरवो न पितृपक्षे। पितृपक्षे तु नागेन्द्रगच्छीयाः श्रीविजयसेनसूरयः उदयप्रभसूरिसंज्ञकशिष्ययुजो विशालगच्छा पीलूआईदेशे वर्तन्ते । ते वासनिक्षेपं कुवन्तु परं न वयं । यदुक्तम्
जा जस्स ठिई जा जस्स संतइ पुठ्यपुरिसकयमेरा कंठठिए वि जीए सा केण न लंघियवत्ति ॥१॥"
अथ मन्याह-" अस्माभिर्भवदन्तिके त्रैविद्यषडावश्यककर्मप्रकृत्यायधीतम् । यूयमेव गुरवः ।" प्रभुभिरुक्तम्-" नैवं वाच्यम् , लोभपिशाचप्रवेशप्रसङ्गात् ।" ततो मन्त्रिभ्यां मरुदेशाद् गुरवः शीघ्रमानायिताः। मुहूर्नप्रतिष्ठादेवालयप्रस्थापनं वासनिक्षेपणं कुलगुरुभिः कृतम् । साधर्मिकवात्सल्यं शान्तिकं मारिवारणं स्वामिपूजनं लोकरञ्जनं चैत्यपरिपाटीपर्यटनं च विहितम् । अथ प्रतिलाभना तत्र मिलिताः कवीश्वराः
For Private And Personal