SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir इदं श्रुत्वा राजा मुखं निश्वासहतदर्पणसमं दधे । अमी मदन्तःपुरे कृतविप्लवा इति धिया । तच्चाचार्यैः क्षणार्द्धनावगतम् । चिन्तितं च-अहो विद्यागुणोऽपि दोषतां गतः । जलधेरपि कल्लीलाञ्चापलानि कपेरपि । शक्यन्ते यत्नतो रोद्धुं न पुनः प्रभुचेतसः ॥ १ ॥ रात्रौ सूरिः संघमनापृच्छ्य राजद्वारकपाटसम्पुटतटे काव्यमेकं लिखित्वा पुराद्वहिर्ययौ । तद्यथायामः स्वस्ति तवास्तु रोहणगिरे ! मत्तः स्थितिप्रच्युता वर्तिष्यन्त इमे कथं कथमिति स्वप्नेऽपि मैवं कृथाः । श्रीमंस्ते मणयो वयं यदि भवल्लब्धप्रतिष्ठास्तदा ते शृङ्गारपरायणा क्षितिभुजो मौलौ करिष्यन्ति नः ॥ १ ॥ अस्मान् विचित्रवपुषश्चिरपृष्टलग्नान् किंवा विमुञ्चसि विभो ! यदि वा विमुच । हा त ! केकवर ! हानिरियं तवैव भूपालमूर्द्धनि पुनर्भविता स्थितिर्नः ॥ २ ॥ इस जिहिं गय तिहिं गया महि मण्डणा हवंति । छेडुतांह सरोवरह जं हंसे मुञ्चति ॥ ३ ॥ दिनैः कतिपयैगडदेशान्तर्विहरन् लक्षणावतीनगर्याः पुरो बहिरारामे समवासार्षीत् । तत्र पुरे धर्मो नाम राजा । स च गुणज्ञः । तस्य सभायां वाक्पति नामा कविराजोऽस्ति । तेन सूरीणामागमनं लोकादवगतम् । ज्ञापितश्च राजा । राज्ञा प्रवेशमहः कारितः । पूर्मध्ये सौधोपान्ते गुरुस्तुङ्गगृहे स्थापितः । राजा नित्यं वन्दते । कवयो जिता रञ्जिताश्च । प्रभावना प्रेधते स्म । यशश्च कुन्दशुभ्रम् । राजा प्रोषे For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy