________________
Shri Mahavir Jain Aradhana Kendra
चतुर्विंशति
॥ ३३ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अदृष्टे दर्शनोत्कण्ठा दृष्टे विरहभिरुता । दृष्टेनाप्यदृष्टेन भवता नाप्यते सुखम् ॥ १ ॥ निर्बन्धे सूरिराह - आमश्चेत्स्वयमायास्यति तदा वयं यास्यामो नान्यथा इति प्रतिज्ञाय स्थापिताः पुण्यलाभं कुर्वन्ति ।
इतश्च यदा बप्पभट्टिः कृतविहारः प्रातः श्रीआमपार्श्व नायातस्तदा तेन सर्वत्रावलोकितो न लब्धः । जातो विलक्षः । ' यामः स्वस्ति तवास्तु ' इत्यादि काव्यानि दृष्टानि । अक्षराण्युपलक्षितानि । ध्रुवं समां मुक्त्वा क्वापि गत एवेति निर्णितम् । अन्यदा बहिर्गतेन राज्ञा भुजङ्गमो दृष्टः । तं मुखे धृत्वा वाससाऽऽच्छाद्य सौधं गतः । कविवृन्दाय समस्यामर्पितवान्
शस्त्रं शास्त्रं कृषिर्विद्या अन्यो यो येन जीवति ।
इति । पूरिता सर्वैरपि । न तु नृपश्चमञ्चकार हृदयाभिप्रायाकथनात् । तदा बप्पभहिं वाढं स्मृतवान् । "सा हृदयसंवादिनी गीस्तत्रैव" अथ पटहमवीवदत् । तत्रेदमजूघुषत् - "यो मम हृद्गतां समस्यां पूरयति | तस्मै हेमटंककलक्षं ददामि । " तदा गोपगिरीयो द्यूतकारः कश्चिद् गौडदेशं गतः । स बप्पभट्टिसूरीणामग्रे तत्समस्यापदद्वयं कथितवान् । सूरिणा पश्चार्द्ध पेठे
सुगृहीतं च कर्तत्र्यं कृष्णसर्पमुखं यथा ॥ १ ॥
For Private And Personal
प्रबन्धः
॥ ३३ ॥