SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir | स्याद् गृहीतव्रताः पापभीरवः स्मः। परं भारतीप्रभावप्रभववचनशक्त्या रसान्सर्वान् जीवद्र्पानिव दर्शयामः। राजन् ! मोढेरके यैस्ते वात्स्यायनभावा व्याख्याताः। ते वयं नन्नसूरय इमे च गोविन्दाचार्याः । भवतां तदा मृषा विकल्पः समजनि । राजा सद्यो ललचे। तौ सूरी क्षमयामास आनर्च वप्पभा च । तौ कतिचिदिनानि उपराजं स्थित्वा बप्पभयनुज्ञया पुनर्मोढेरपुरमगाताम् । गतः समयः कियानपि । अन्यदा गायकवृन्दमागतम् । तन्मध्ये बालिकेका तमालनीलोत्पललोचना मृगाङ्कमुखी किन्नरस्वरा विदुषी गायति । तदृष्ट्वा मदनज्वरजर्जरो गलितविवेको गतप्रायशौचधर्माभिनिवेशः कन्यकुब्जेशः पदद्वयं प्रभुप्रत्यक्षमपाठीत्वक्त्रं पूर्णशशी सुधाधरलता दन्ता मणिश्रेणयः कान्तिः श्रीगमनं गजः परिमलस्ते पारिजातद्रमाः। वाणी कामदुघा कटाक्षलहरी सा कालकूटच्छटा तत्किं चन्द्रमुखि ! स्वदर्थममरैरामन्धि दुग्धोदधिः ॥१॥ जन्मस्थानं न खलु विमलं वर्णनीयो न वर्णो दूरे शोभा वपुषि निहिता पङ्कशङ्कां तनोति । विश्वपार्थ्यः सकलसुरभिद्रव्यदर्पापहारी नो जानीमः परिमलगुणः कस्तु कस्तूरिकायाः ॥२॥ सूरिभिश्चिन्तितम्-अहो ! महतामपि किग् मतिविपर्यासः। For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy