________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रवन्धः
चशिति
प्राह-यो भवद्भिः स्वौ गुरुबान्धवौ स्तुतौ। तत्र गत्वा एको नन्नमरिनामा दृष्टः शृंङ्गारकथाब्याख्यानलम्पट. स्तपोहीनो लोहतरण्डतुल्यो मज्जति मज्जयति च भवाम्बुधौ । तस्मान्न किञ्चिदेतत् । सूरयो मसिमलिनबदनाः खवसतिमगुः। तत्रोपविश्य द्वौ साधू मोढेरकपुरं प्रहितौ । तत्पात्तत्र कथापितम्-"आमोऽकृतप्रणामो भवत्पादिागतः। एवमेवं युवां निन्दति । तत्कर्तव्यं येनासौ भवत्स्यन्येष्वपि श्रमणेषु अवज्ञावान्न भवति ।" | सर्व तत्रत्यं ज्ञात्वा तौ द्वादपि गुटिकया वर्णस्वरपरावर्त कृत्वा नटवेषधरौ गोपगिरिमीयतुः। श्रीऋषभध्वजचरित्रं नाटकत्वेन बबन्धतुः। नटान् शिक्षयामासतुः। आमराजमवसरं ययाचतुः। राज्ञाऽवसरो दत्तः । मिलिताः सामाजिकाः तत्तद्रसभावज्ञाः । ताभ्यां नाटकं दर्शयितुमारेभे। भरतबाहुबलिसमरावसरोऽभिनी यते । यदा व्यूहरचना-शस्त्रझालरकार-दीरवर्णना-भट्टकोलाहलाश्चोत्थापनघघरिका-ऋणऋणत्कारादि ता. भ्यां वर्णयितुमारब्धम् । धारारुदस्य रमोऽवातारीत् । तदा श्रीआमस्तटाश्च कालिन्दीप्रवाहश्यामदीर्घानसीनाकृष्योत्थिता हतहत इति भाषन्ते स्म । अत्रान्तरे नन्ननरिगोविन्दाचायी स्वरूपमुद्रे प्रकाश्याहतु:-"राजन् ! २ भटाः २ शृणुत २ कचायुधमिदं न तु साक्षादलं संभ्रमण।" इत्युक्ता लज्जिता विस्मिताच ते राजाद्याः संधृत्याकारमस्थुः। तदा गोविन्दाचार्यननसूरिभ्यां भूपोऽभाणि-"किल शृङ्गारानुभविनो चयमिति सम्यग्व्याख्यातुं विद्मः। किन्तु समराजिरमपि भवद्वत्प्रविष्टाः स्मः । कुरङ्गा इव शो दृष्टे विभिमः । आवा
For Private And Personal