________________
Shri Mahavir Jain Aradhana Kendra
www.kebatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुर्विंशति
प्रबन्धः
॥७॥
अथ श्रीजीवदेवमृरिप्रबन्धःगूजरधरायां वायुदेवतास्थापितं वायट नाम महास्थानम् । तत्र धर्मदेवनामा श्रेष्ठी धनवान् । तस्य | शीलवती नामा गेहीनी गेहश्रीरिव देहिनी । तयोः सुतौ महीधरमहीपाली । महीपालः क्रिडाप्रियो न कला | भ्यासं करोति । ततः पित्रा हकितो रुष्टो देशान्तरमसरत् । धर्मदेवश्रेष्ठी परलोकं प्राप्तः। महीधरोऽपि श्रीजिनदतसूरीणां वायटगच्छीयानां पादमूले प्रवव्राज | स राशिल्लसरि म सूरीन्द्रो बभूव । महीपालोऽपि पूर्वस्यां दिशि राजगृहे पुरे दिगम्बराचार्यदीक्षां प्राप्याचार्यपदमवाप । 'सुवर्णकीर्तिः' इति नाम पप्रथे । श्रुतकीर्तिना गुरुणा तस्मै द्वे विद्ये प्रदत्ते चक्रेश्वरीविद्या परकायप्रवेशविद्या च | धर्मदेवे दिवंगते शीलवती |दुःखिन्यासीत् । यतः
यथा नदी विनाऽम्भोदाद्यामिनी शशिनं विना । अम्भोजिनी विना भानु भा कुलवधूस्तथा ॥१॥
राजगृहागतपरिचितमनुष्यमुखेन स्वपुत्रं स्वर्णकीर्ति तत्रस्थं ज्ञात्वा तमिलनाय गता । मिलितः सुवर्णकीर्तिस्तस्याः । उन्मीलितो मातापुत्रस्नेहः । एकदा तया सुवर्णकीर्तिभाषित:-" तव पिता दिवमगमत् ।
॥
७
॥
For Private And Personal