________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailashsagarsuri Gyanmande
कुपितः सन् विरूपं कर्तुं वैरोट्याग्रहमगमत् । अलिञ्जरी गूढतनुहमध्ये स्थितः । यदा वैरोट्या ध्वान्तभरे सति गृहापवरकनध्ये प्रविष्टा , तदा लयोक्तम्-" रण्डो जीवतु चिरम्" तच्छुत्वा नागराजः सन्तुष्टस्तस्यै नुयूरे ददौ । “अद्य प्रभृति वत्से ! त्वचा पाताले आगन्तव्यम् , नागाश्च त्वद्यमेष्यन्ति” इति प्रसादः कृतः । सा वैरोट्या पाताले गमनागमनं करोति । नागवरात् 'नागदत्तः' इति नाम दत्तं पुत्रस्य । तदा पद्मदत्तो वैरोट्यान्वशुरः श्रीआर्यनन्दिलक्षपकैरेवमुक्तः- त्वया स्क्वध्वाऽग्रे कथनीयस्-नागाश्रयं गतया | त्वया नागा वक्तव्याः-" भवद्भिर्लोकस्यानुग्रहः कर्नव्यः । कोऽपि न दंष्टव्यः । तत्परिवचनं श्वशुरेण तस्यै, तया च नागेभ्यः कथितम् । तत्र गता च वैरोट्या एवमुच्चैर्जगो-“सालिञ्जरपत्नी जीयात् । सोलिञ्जरो | जीयात् । येनाहमपितृगृहाऽपि सपितृगृहा कृता । अनाथाऽपि सनाथा सञ्चाता। भो भो नागकुमारा!
आर्यनन्दिलेन महात्मना एवमादिष्टम्-लोको न पीडयितव्यः, लोकस्यानुग्रहः कार्यः।' वैरोट्या पुनरपि स्वगृहं गता । गुरुणा वैरोख्यास्तदो नबो विरचितः । यो वैरोट्यास्तवं पठति, तस्य पन्नगभयं नास्ति । पन्नगाः सर्वे वैरोठ्यया गुरोः पार्श्वमानीताः। उपदेशं श्राविता उपशान्तचित्ताः संवृत्ताः। नागदत्तनामा वैरोव्यापुत्रः सौभाग्यरङ्गभूरभूत् । पादत्तेन प्रियासहितेन व्रतं गृहीतम् । तपस्तप्त्वा स्वर्ग गतः। पद्मयशा अपि तस्य देवत्वं प्राप्तस्य इच्छासिद्धियुजो देवी सनाता । वैरोट्या च फणीन्द्राणां ध्यानान्मृत्वा धरणेन्द्रपत्नी| त्वेनोत्पन्ना । तत्रापि वैरोट्या' इति नामाऽस्याः ।
॥ इति आर्यनन्दिलप्रबन्धः ॥
For Private And Personal