SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsagarsuri Gyanmandie सेनसूरयो बार्द्धकेन पीडिता अनशनं गृहीतुकामाः श्रीवप्पभटिसूरीणामाकारणाय गीतार्थमुनियुगलं प्रेषिषुः। ते सद् गुरोलेखमदीदृशन् । तत्र लिखितं यथा अध्यापितोऽसि पदवीमधिरोपितोऽसि तत्किंच नापि कुरु वत्सक ! बप्पभद्दे !। प्रायोपवेशनरथे विनिवेश्य येन संप्रेषयस्यमरधाम नितान्तमस्मान् ॥१॥ तेदृष्ट्वा आमभूपतिमापृच्छय मोढेरकपुरं ब्रमशान्तिस्थापितवीरजिनमहोत्स्वायं प्रापुस्ते । गुरून्यवन्दिरे । गुरवोऽपि तान्याढमालिङ्गथालापिषुः । वत्स ! गाढमुत्कण्ठितमस्माकं हृदयम् । मुखकमलकमपि ते विस्मृतम् । राजानुगमनं तेऽस्माकं दुःखायासीत् । कारय साधनाम् । अनृणो भव । ततोऽन्त्याराधना चतु:शरणगमन-दुष्कृतगाँ-सुकृतानुमोदना-तीर्थमालावन्दनादिका विधिना विधापिता । गुरवो देवलोकललनानयनविभागपात्रत्वमानञ्चुः । शोक उच्छलितः । ततो बप्पभहिः श्रीमद्गोविन्दसूरये श्रीनन्नसूरये च गच्छभारं समर्प्य श्रीआमपार्श्वमगमत् । पूर्ववत्समस्यादिगोष्ट्यः स्फुरन्ति । एकदा सूरिनॅपसभायां चिरं पुस्तकाक्षरदत्तक् तस्थौ। तत्रैका नर्तकी नृत्यन्ती आसीत् , रूपदासीकृताप्सराः। सूरिदृग्नीलिनिवारणाय तस्याः शुकपिच्छनीलवर्णायां नीलकंचुलिकायां दृशं निवेशयामास । आमस्तदृष्ट्वा मनसि पपाठमिततत्तपारंगयाण जोगीण जोगजुत्ताणम् । जइताणं पि मियच्छी मणमि तात चिय पमाणम् ॥१॥ A/ भार समपात्रत्वमानञ्चुः । शोक लामालावन्दनादिका विधि For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy