________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
याममाभ्यां रात्र्यामायाति रञ्जयति तम् । एकदा निशीथे साऽऽगात् । मन्त्री कुपितः-" आः पापे ! परनृ- गामिनि ! किमिति विलम्बेन समागतासि ?।" सापि सप्रश्रयं मन्त्रिणमभाषत-" स्वामिन् ! मा कुप। कारणेन स्थिताऽस्ति ।” मन्त्रिणोचे-" किं कारणम् ? ।" सा जगाद-“प्रभो ! अहं राज्ञस्ताम्बूलदासी। रात्रोम एकस्मिन् राज्ञा परिच्छदः सर्यो विसृष्टः। अहमपि विसृष्टा । विसृजता चाप्तनर एकोऽभाषि"व्याघ्रराजं हकारय ।" अहं स्तम्भान्तरिता कौतुकेन स्थिता । को व्याघ्रराजः । कथमाहूयते ? इति । ततो राज्ञाकारितः स आगतः कृतप्रणामः सन् राज्ञाऽऽलापि-“भो ! विजनमस्ति इति भाष्यसे । त्वमस्माकं कुलक्रमागतः सेवकः । सद्यो व्रज । गूजरेश्वरघातको भूत्वा व्यापादय । लक्षत्रयं हेनां दास्ये।" अथ स व्याघ्रराजाख्यो बभाषे-" देव ! हनिष्याम्येव तं राजानम् । मा स्म संशयं कृथाः स्वामिन् !।" ततस्तद्वचः श्रुत्वा तुष्टः शाकम्भरीश्वरः सद्यो हेमलक्षत्रयबदरकांस्तद्गृहायाचीचलत् । व्याघ्रराजं चाप्राक्षीत-"कदा केनोपायेन तं हनिष्यसि ?" व्याघ्रराजोऽवादीत्-"नाथ ! अद्य रविवारों वर्तते । आगन्तुकामे सोमवारे क्वचनावसरं लब्ध्वा हनिष्यामि । उपायस्तु भरटकरूपं करिष्यामि । राजा तु कर्णरुप्रासादे आयाति सोमवारे ध्रुवम् । देवं नत्वा व्यावर्त्तमानायास्मै बाह्याङ्गणे शेषादानमिषेण पुष्पकलंबकमुत्पाटयिप्यामि । तत्र धृतया कर्तिकया कङ्कमय्या घातयिष्यामि । अङ्गीकृतसाहसानां न किश्चिदपि दुष्करम् । अहं
For Private And Personal