SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रबन्ध: ॥५५॥ तरं सर्वतीर्थाधिकतया पुराणपुरुषैर्निवेदितामेतां मालां परिधापयिष्यामि । श्रुत्वा हृष्टो मन्त्री राजा संघश्च । मातृसंमुखगमनं सर्वश्रावकाणां मालापरिधापनम् । तन्माणिक्यं हेम्ना खचित्वा ऋषभाय कण्ठाभरणमनुष्णकिरणभरितचैत्यगर्भमासूत्रयामहे । वलितः संघः प्राप्तः पत्तनम् । प्रवर्त्तन्ते संघभो|ज्यानि प्रतिलाभनाश्च। अमारिस्तु नित्यैव । तस्य च कुमारपालदेवस्य भग्नी शाकम्भरीश्वरेण चाहमानवंश्येन राज्ञा आनाकेन परिणीताऽस्ति । एकदा तौ सारिभिः क्रीडतः। क्रीडता राज्ञा सारिगृहे मुश्चतोक्तम्-" मारय मुण्डिकान् पुनर्मारय मुण्डिकान् ।" एवं द्विस्त्रिः। टोपिकारहितशीर्षकत्वान्मुण्डिका गुर्जरलोका विवक्षिताः अथवा श्वेताम्बरा गूर्जरेन्द्रगुरवो मुण्डिका इति हासगर्भोक्तिः। राज्ञी कुपिता वदति-"रे जङ्गडक ! जिह्वामालोच्य नोच्यते? किं वक्षि ?। न पश्यसि माम् । न जानासि मम भ्रातरं राजराक्षसम् ।" कुद्धो राजा तां पदा जघान । साप्याह-" यदि ते जिहां अवटपथेन कर्षयामि तदा राजपुत्री माममंस्थाः।" इति वदन्त्येव सा ससैन्या निर्विलम्ब श्रीपत्तनमेत्य चौलुक्याय तं परिभवं प्रतिज्ञां च स्वोपज्ञमजिज्ञपत् । चौलुक्योऽभाषत-" इत्थमेव करिष्यामः कौतुकं पश्यः।" ततश्चानकस्तस्यां तत्र गतायां गूजरनृपतंजो दुर्द्धरं विदंश्चक्षोभ । चौलुक्योऽपि बाप्तपरिच्छदं मन्त्रिणमेकं तत्रत्यवृतान्तज्ञानाय प्रैषीत्। गतः सतत्र । जग्राह गृहम् । राजासन्नदासीमेकां धनेन रजयित्वा आत्मीयं भोगपात्रमकरोत् । नित्यं सा For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy