________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| दश, कविप्रयन्धाश्चत्वारः, राजप्रबन्धाः सप्त, राजाङ्गश्रावकप्रबन्धात्रयः, एवं चतुर्विंशतिः।१ भद्रबाहुवराहयोः, २ आर्यनन्दिलक्षपणकस्य, ३ श्रीजीवदेवमरीणाम् , ४ आर्यखपटाचार्याणाम् , ५ पादलिप्तप्रभूणाम् , ६ वृद्धवादिसिद्धसेनयोः, ७ मल्लवादिनः, ८ हरिभद्रमरीणाम् , ९ बप्पभटिसूरीणाम् , १० हेममरीणाम् , ११ श्रीहर्षकवेः, १२ हरिहरकवेः, १३ अमरचन्द्रकवेः, १४ दिगम्बरमदनकीर्तिकवेः, १५ सातवाहन-१६ वङ्कचूल-१७ विक्रमादित्य-१८ नागार्जुन-१९ उदयन-२० लक्षणसेन-२१ मदनवर्मणाम् , २२ रत्न-२३ आभड-२४ वस्तुपालानां चेति ।
तेषु प्रथमं भद्रबाहुवराहप्रबन्धःदक्षिणापथे प्रतिष्ठानपुरे भद्रबाहु-वराहाह्रौ द्वौ द्विजौ कुमारी निर्धनी निराश्रयी प्राज्ञो वसतः । तत्र यशोभद्रो नाम चतुर्दशपूर्वी समागतः । भद्रबाहुवराही तद्देशनां शुश्रुवतुः। यथा-भीगा भङ्गुरवृत्तयो बहुविधास्तैरेव चायं भवः, तत्त्वस्येह कृते परिभ्रमत रे! लोकाः! मृतं चेष्टितैः। आशापाशशतोपशान्तिविशदं चेतः समाधीयताम् , काप्यात्यन्तिकसौख्यधामनि यदि श्रद्धेयमस्मद्वचः॥१॥
For Private And Personal