SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra चतुर्विंशति ॥ २४ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नोन्मूलयामि चेद्वौद्धान् नदीरय इव द्रुमान् । तदा भवामि सर्वज्ञध्वंसपातकभाजनम् ॥ ३५ ॥ इत्युक्त्वाऽम्बां समापृच्छ्थ बालः कालानलद्युतिः । मल्लनाम गिरिं गत्वा तेपे तीव्रतरं तपः ॥ ३६ ॥ आसन्नग्रामभैक्षेण पारणं च चकार सः । दिनैः कतिपयैस्तच जज्ञौ शासनदेवता ॥ ३७ ॥ भूत्वा व्योमनि सावादीत्के मिष्टाः ? सोऽपि बालकः । तच्छ्रुत्वाऽऽख्यत्सानुभवं वल्ला इति खदत ॥ षण्मास्यन्ते पुनः सोचे खस्था केन सहेत्यथ ? । बालविरप्यभाषिष्ट समं घृतगुडैः शुभैः ॥ ३९ ॥ अवधारणशक्त्या तं योग्यं शाशनदेवता । प्रत्यक्षा न्यगद्द्वत्स ! भूयाः परमतापहः ॥ ४० ॥ नयचकस्य तर्कस्य पुस्तकं लाहि मानद ! । वाणी सेत्स्यति ते सम्पद् कुतर्कोरगजाङ्गली ॥ ४१ ॥ भूमौ मुमोच तं तर्कपुस्तकं बालको मुनिः । प्रमादः सुलभस्तन्न वयोलीलाविशेषतः ॥ ४२ ॥ रुष्टा शासनदेव्यूचे विहिताशतना त्वया । सानिध्यं ते विधाताऽस्मि प्रत्यक्षीभविता न तु ॥ ४३ ॥ तं लब्धा पुस्तकं मल्लवादी देदीप्यते स्म सः । शस्त्रं पाशुपतमिव मध्यमः पाण्डुनन्दनः ॥ ४४ ॥ आगत्य वलभद्र सुराष्ट्राराष्ट्रभूषणम् । शिलादित्यं युगप्रान्तादित्यच्युतिरुवाच सः ॥ ४५ ॥ बघा जगजाग्धं प्रतिमोहमुत्थितः । अप्रमादी मल्लवादी त्वदीयो भगिनीसुतः ॥ ४६ ॥ शिलादित्यनृपोपान्ते बौद्धाचार्येण वाग्मिना । वादिवृन्दारकच के तर्कपदरसुल्बणम् ॥ ४७ ॥ मल्लवादिनि जल्पाके नयतर्कबलोलपणे । हृदये हारयामास षण्मासान्ते स शाक्यराट् ॥ ४८ ॥ For Private And Personal प्रवन्धः ७ ॥ २४ ॥
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy