SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्रद्धालुना गृहीतमेवेति तत्त्वम् ।” इत्येतां देशनां श्रुत्वा रत्नः आवक उत्थाय गुरोरग्रे प्रतिज्ञा चक्रे-"मया ससङ्केन यदा रैवते नेमिः प्रणतो भविष्यति। तदा द्वितीया विक्रतिग्रहीतव्या। तदैव एकभक्तं भोक्तव्यम्। तावन्तं च कालं यावद् ध्रुवं भूमिशय्याब्रह्मचर्य धार्ये । वरं प्राणांस्त्यजामि परं नेमिनाथं नमाम्येवेति ।" ततः स्वगृहमायातो राजा लोकश्च । रत्नश्रावकोपरोधात् पट्टमहादेवस्तत्रास्थात् । रत्नस्तूपायनं दत्त्वा राजानमूचे-" राजन् ! मां नेमियात्रायै रैवतगमनाय विसृज।" राज्ञोक्तम्-" स्वैरं धर्मः समाचर्यताम् । अस्माकं मतमेतत् । यद्विलोक्यते तद् गृहाण ।” रत्नो जहर्ष । सङ्घममेलयत् । गजरथतुरगपदातिरूपं महः । त्तम सैन्यं नृपालेभे । यस्य यन्न्यूनं तस्य तत्पूरयामास । अमारिचैत्यपरिपाटीशान्तिकभोजनवारापतिलाभनाबन्दिमोक्षलोकसत्कारांश्चकार । गणितं मुहूर्त्तम् । चलितो देवालयः । राजा महोत्सवकरः परमसखा करभशतर्धनानि चेलुः। श्रेष्ठिनी पउमिणिर्नुपपत्नी विजयदेवीं यालवयस्यां भेटायितुं जग्मुषी पादयोस्तस्याः पेतुषी आपपृच्छे-"स्वामिनि ! यात्रायै यान्त्यस्मि । भवद्वियोगदुःखं दिनकतिपयानि धर्मलोभतः सोदुमीहेऽहम्।" राज्ञी अपि शास्तुमूचे-" सखि ! तत्र गता धनकृच्छतया कार्पण्यं कृत्वा मां लज्जापात्रं मा कृथाः। बैरं ददीथाः । अमूनि धनानि भूषणानि वसनानि यथेच्छं गृहाण ।" इत्युक्त्वा भूरि ददे । पदानि कतिपयानि सम्प्रेषयत् । निवृत्ता राज्ञी । श्रेष्ठिनी सङ्घमध्यमध्यास्त । श्रीपट्टमहादेवो गुरुः सह व्यवहरत् । तेन सनाथः For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy