________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
|" कथमुत्सुका इव यूयम् ।” तैर्विज्ञप्तम्-" देव ! वयं दूरात् पुष्पाण्याहार्मः । सङ्घः किल शत्रुचयशिखरे
ऽस्ति । प्रकृष्ट मूल्यं लप्स्यामहे । तत्पुनरन्यथा जातम् । सङ्घश्चलितः । तस्मादभाग्या वयमिति ।” तेषां | दैन्यं दृष्ट्वा मन्त्रिणाऽभाणि-" अत्रैव स्थीयतामृध्वैः क्षणम् ।” तावता पाश्चात्यं सर्वमायातं । श्रीवस्तुपालेन स्वकुटुम्ब सङ्घश्चाभाण्यतां । यथा-" भो धन्या ! सर्वेषां पूर्णस्तीर्थवन्दनपूजाभिलाषः।” लोकेनोक्तम्" भवत्प्रसादात्पूर्णः।” मन्त्र्याह-" किमपि तीर्थमपूजितं स्थितमस्ति ।” लोकः प्राह-"प्रत्येकं सर्वाणि तीर्थानि पूजितानि ध्यातानि ।” मन्त्रिमहेन्द्रः प्राह-" यद्विस्मृतं तन्न जानीथ यूयम् । वयं स्मारयामः।" सङ्को वदति-"किं विस्मृतं, तत्कथयन्तु ।" मन्त्री वदति-" भो लोकाः! पूर्व तीर्थमयं पर्वतः । यत्र स्वयमृषभदेवः समवासार्षीत् । ततो नेमिवर्जितात्रयोविंशतिर्जिनाः समवासार्षुः । असङ्ख्याः सिद्धाश्च यत्र । सादिः कथं न तीर्थम् ? । लोकोऽप्याह-"सत्यं तीर्थमयं पर्वतः।" तर्हि पूज्यताम् । पुष्पादीनि क्वेति चेद कथयिष्यन् नदा इमे मालिका इमानि पुष्पाणि वः पुण्यरुपास्थिषतेति।" तप्तः सङ्ग्रेन तानि पुष्पाणि गृहीत्वाऽद्रिपूजा कृता । द्रम्मेण पुष्पं जातम् । नालिकेरास्फालनवस्त्रदानादिकेलयश्च । तुष्टा मालिकाः। एवं पराशाभङ्गपराङ्मुखः आसराजभूः । ततः शनैः शनैः पशुतुरङ्गशिश्वाद्यपीडया सङ्घो रैवतकमारोह च । नेमिनि दृष्टे मन्त्री ननत । पपाठ च आनन्दाश्रुनिझरिताक्षः
For Private And Personal