________________
Shri Mahavir Jain Aradhana Kendra
चतुविशांत
॥ ४५ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भिखयरो पिच्छइ नाभिमंडलं सावि तस्स मुहकमलम् ।
सूरिराह
दुन्हंपिकवालं चपि काया विलुंपन्ति ॥ २ ॥
इति आमः श्रुत्वा चमत्कृतः । अहो सर्वज्ञपुत्रका एते । अन्यदा कोऽपि चित्रकृद् भूपरूपं लिखित्वा उपभूपं गतः । बप्पभट्टिना श्लाघिता तत्कला । नृपात्तेन टंककलक्षं लेभे । लेप्यमयबिम्ब चतुष्ट्यं च कारितम् । एकं मथुरायाम् । एकं मोढेरवसहिकायामणहिल्लपुरे । एकं गोपगिरौ । एकं सतारकाख्यपुरे । तत्र प्रतिष्ठाः प्रभावनाश्व कारिताः । अन्यदपि बह्नकारि । अथ आमगृहे पुत्रो जातः । सुलक्षणः । सोत्सवं तस्य 'दुन्दुकः ' इति नाम प्रतिष्ठितम् । सोऽपि युवत्वे तैस्तैर्गुणैः पितृवत्पप्रथे । एकदा समुद्रसेनभूपाधिष्ठितं राजगिरिनामदुर्गं आमो रुरोध । अमितं सैन्यं कुद्दालादिसामग्री भैरवादयो यन्त्रभेदाः कल्पिताः । प्राकारोऽतिबलेन प्रपातयितुमारेभे । नापतत्। आमः खिन्नः । तेन सूरयः पृष्टाः- “अयमभ्रंलिहः प्राकारः कदाऽस्माभिग्रहिष्यते ।" सूरिभिर्बभणे- " तव पुत्रपुत्रो भोजनामाऽमुं प्राकारं दृक्पातमात्रेण पातयिष्यते अन्यो नैव ।” आमस्त्यक्तारम्भः प्राकाराद्वहिर्द्वादशाब्दीमस्थात् । शत्रुदेशमात्मसाच्चक्रे । दुन्दकगृहे पुत्रो जातः । तस्य 'भोज' नाम ददे । स जातमात्रः पर्यकिकान्यास्ते । दुर्गद्वाराग्रमानीतः प्रधानैः । तद्दृकप्रपातमात्रेण प्राकारः खण्डशो विशीर्णः ।
For Private And Personal
प्रबन्धः ९
॥ ४५ ॥