SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir |समुद्रसेनभूपो धर्मद्वारे निःसृतः । आमो राजगिरिमविक्षत् । प्रजामारोन कृतः। अकरा हि जैना महर्षयःराजर्षयश्च दयापरास्ते । रात्रौ आमाय राजगिर्यधिष्ठात्रा भाणतम्-"राजन् ! यदि त्वमत्र स्थास्यासि तदा तव लोकं हनिष्यामि" आमः प्रत्यूचे-"लोकेन हतेन किं ते फलं ? । यदि हनिष्यास तदा मामेव घातय।" एतनिर्भयमामवचः श्रुत्वा तुष्टो व्यन्तर उवाच-"प्रीतोऽस्मि ते सत्त्वेन | याचस्व किश्चित् ।" राजोचे-"न किमपि न्यूनं मे केवलं कदा मे मृत्युः? ब्रीदम् ।" व्यन्तर उवाच-"षण्मासावशेषे आयुषि स्वयमेत्य वक्ष्यामि।" षण्मासावशेषे आयुषि पुनरागतः सः। राज्ञोक्तम्-"कियन्मे आयुः?" व्यन्तरो वदति-"देव! 'गङ्गान्तर्मागधे तीर्थे नावाऽवतरतः सतः। मकाराद्यक्षरग्रामोपकण्ठे मृत्युरास्त ते ॥१॥ || षण्मासान्ते इति विद्याः। पानीयान्निर्गच्छन्तं धूमं यदा द्रक्ष्यसि तदा मृत्युर्ज्ञातव्यः । साधना च कार्या पार लौकिकी।" इति गदित्वा गतो देवजातीयः। राजा प्रातः सूरिपार्श्व गतः। सूरिरुवाच-"राजन् ! यद्वयन्तरेण वोऽग्रे कथितं आयुष्प्रमाणं तत्तथैव । धर्मपाधेयं गृहीथाः।" तदाकर्ण्य भूपस्तुतोष विसिस्मिये च । अहो ! ज्ञानम् । अथवा विस्मय एव कः?। सूरस्तेजस्वी । इन्दुरालादकः । गङ्गाम्भः पावनम् । जैना ज्ञानिन इति । दिनद्वये गते सूरिः श्रीआमस्थ पुरः प्रसङ्गेन श्रीनेमिनाथस्याशीर्वादं पपाठ । यथा For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy