________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तपथाः। स मृत्वा त्वमुत्पन्नः। तस्यातिदीर्घा जटा तत्रैव लतान्तरिता अद्याप्यस्ति ।" तदाकर्ण्य आप्तनरास्तन्त्र राज्ञा प्रहिताः। तैर्जग आनोता। सूरिवाक्संवादो दृष्टः । भूपतिः हरीणां पदोविलग्य तस्थौ । परमाह तो बभूव । अन्यदा सौधोपरितलस्थेन आमेन क्वापि गृहे भिक्षार्थ प्रविष्टो मुनिदृष्टः। तत्र युवतिरेका कामार्ता गृहागतं मुनि परब्रह्मैकचित्तं रिरमयिषुः कपाटसम्पुटं ददौ । मुनिनेंच्छति ताम् । तया मुनये पादतलपहारे दीयमाने नूपुरं मुनिवरचरणे प्रविष्टं काकतालीयन्यायेन अन्धवर्तकीन्यायाच्च । राजा तद्दृष्ट्वा सूरये समस्यां ददौ
कवाडमासज वरंगणाए अन्भुत्थिओ जुन्वणगब्बियाए। सूरिः प्राह
नमन्नियं तेण जियं दिएण स नेउरो पब्वइ अस्स पाओ ॥१॥ अन्यदा प्रोपितभर्तृकाया गृहे भिक्षुः कश्चिद् भिक्षार्थी प्रविष्टः । राज्ञा सौधाग्रस्थेन दृष्टः । तया भिक्षाः पारणायान्नमानीतम् । उपरि काकैक्षितम् । मुनिकस्य दृष्टिस्तस्या नाभौ पतिता। तस्यास्तु दृष्टिस्तन्मुखकमले। आमः सूरये समस्यामार्पिपत् । यथा
For Private And Personal