SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रोटयसि मा त्रोटय इति भावः।'मा रोवा मोडहि' इह रोपा पञ्चमहाव्रतानि तानि मा मोटय ।' मणकुसुमेहिं' मनःकुसुमैर्निरञ्जनं जिनं पूजय । 'हिंडइ वणेण वणु' बनादनं किं हिंडसे राजसेवादीनि कृच्छाणि विरसफलानि कथं करोषि इति पदार्थः । ततो वादी तां गुरुशिक्षा मूनि धृत्वा राजानमापृच्छय वृद्धवादिना सह निविडचारित्रधरो विजहार । अपरापरगुरुभ्यः पूर्वगतश्रुतानि लेभे । वृद्धवादी धां गतः । एकदा सिद्ध. सेनः संघ मेलयित्वाह स्म-"सकलानप्यागमानहं संस्कृतान्करोमि, यदि आदिशथ ।” ततः संघो वदति स्म-" किं संस्कृतं कर्तुं न जानन्ति श्रीमन्तस्तीर्थकरा गणधरा था। यदर्धमागधेनागमानकृषत। तदेवं जस्पतस्तव महत्मायश्चितमापन्नम् । किमेतत्तवाग्रे कथ्यते । स्वयमेव जाननसि ।" ततो विमृश्याभिदधेऽसौ" सङ्घोऽवधारयतु अहमाश्रितमौनो द्वादशवार्षिकं पाराश्चिकं नाम प्रायश्चितं गुप्तमुग्ववस्त्रिकारजाहरणादिलिङ्गः प्रकटितावधूतरूपश्चरिष्याम्युपयुक्तः।" एवमुक्त्वा गच्छं मुक्त्वा ग्रामनगरादिषु पर्यटन द्वादशवर्षे श्रीमदुजयिन्यां महाकालप्रासादे शेफालिकाकुसुमरञ्जिताम्बरालङ्कसशरीरः समागत्यासांचके । ततो देवं कथं न-नमसीति लोकैर्जल्प्यमानोऽपि नाजल्पत् । एवं च जनपरम्परया श्रुत्वा विक्रमादित्यदेवः समागत्य अल्पयांचकार-"क्षीरलिलिक्षो! भिक्षो! किमिति त्वया देवो न वन्द्यते।" ततस्तु राजानं प्रतीदमवादि वादिना"मया नमस्कृते लिङ्गभेदो भवतामप्रीतये भविष्यति।" राज्ञोचे-"भवतु क्रियतां नमस्कारः।" तेनोक्तम्श्रूयतां तर्हि ।" पद्मासनेन भूत्वा द्वात्रिंशद्वात्रिंशिकाभिर्देवं स्तोतुमुपचक्रमे । तथाहि । For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy