________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्रावकत्वं गृहीतम् । पश्चात् 'गुरु दक्षिणा गृह्यताम्' इति ओढरेणोक्त सूरिभिरुक्तम्-" वयं निर्ममा निष्परियहा धनादि न गृहीमः। अथ तवात्याग्रह एव तहि श्रीमहावीरप्रासादकारापणं दक्षिणाऽस्तु ।" कारित: प्रासादः । ओढरस्य जयताकेन सह सोदरत्वमिवासीत्। एकदा पर्युषणे ओढरः सपरिवारश्चालितो जयताकेन. | समं देवगृहं प्रति । पुष्पाणि गृहीत्वा ओढरेण देवस्य पूजा कृता, जयताको जजल्पे-" इमानि मे पुष्पाणि गृहीत्वा पूजां कुरु।" जयताको जगाद-"पुष्पाणि भवदीयानि एभिः पूजायां कृताय किं मे कलम् ? वेष्टिरेव केवला । केवलं ममापि पञ्च वराटकाः सन्ति । तत्पुष्पैः पूजयिष्यामि जिनेन्द्रम् ।" तथैव पूजितः। जयताको पुण्यमगण्यमुपाजयत् । तत ओढरजयताको गुरुन् वन्दितुं जग्मतुः । उपवासः कृतो जयताकेन। द्वितीयदिने मुनिभ्यो दत्त्वा पारणं कृतम् । एवं पुण्याख्यः सन् मृत्वा श्रीमूलराजवंशे तिहुअणपालदेवगृहे श्रीकुमारपालोऽभूत् । एवमुक्त्वा विरतासु देवीषु प्रभुभिः प्रोक्तम्-"कोऽत्र प्रत्ययः।" पुनर्देव्यः प्राहु:उपराजं वदेः नवलक्षतिलङ्गशृङ्गारनगरे उरङ्गले मानवान्प्रेषय । अद्यापि ओढरस्य वंशीयाः सन्ति । तेषां दासी स्थिरदेवी जीर्णवृत्तान्तान जानाति वक्ष्यति च ।" इत्युक्त्वा देव्यो गताः स्वस्वस्थानम् । पत्तने राजान्तिकं गता प्रभवः । पृष्टं तत्र राज्ञा । तथैव राज्ञोऽग्रे न्यगादि। नरप्रेषणात्सर्वं ज्ञातम् | जिनधर्मे स्थैर्य जातम् । |सह सिद्धेशेनापि वैरकारणमुपलब्धम् । पूर्वभवे गर्भघातान्न सिद्धराजस्य सन्तानम्। इति कुमारपालपूर्वभवः॥
॥ इति हेमसूरिप्रबन्धः ।।
For Private And Personal