SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अहोतमां मम पापाभिमुखता इति ललले । दध्या च-"सांकल्पिकमिदं जनङ्गमीसङ्गमपापं मयाऽऽचरितम् । भारितोऽहं क्व यामि ? । किं करोमि ?। कथं गुरोर्मुखं दर्शयामि?। किं तपः समाचरामि ? किं तीर्थ सेवे?। ऊर्ध्व मुखं गृहीत्वा गच्छामि। कूपे पतामि। शस्त्रेणात्मानं घातयामि।” अथवा ज्ञातम्-सर्वजनसमक्षं पापमुद्भीर्य काष्ठानि भक्षयामि । एवं टलवलायमानोऽनुचरानादिदेश-अग्निं प्रगुणयत । प्रगुणितस्तैरग्निः । समागताः श्रीवप्पभहिमूरयः। मेलितं चातुर्वर्ण्यम् । उक्तं तदघम् । यावत्सहसाऽग्नि प्रवेक्ष्यति आमस्तावत्सरिभिर्वाही धृत्वोक्त:-"राजन् ! शुद्धोऽसि । मा स्म खिद्यथाः । त्वया हि संकल्पमात्रेण तत्पापं कृतं न साक्षात् । संकल्पेनाग्निमपि प्रविष्टोऽसि । चिरं धर्म कुरु।। मनसा मानसं कर्म वचसा वाचिकं तथा । कायेन कायिकं कर्म निस्तरन्ति मनीषिणः॥" इति वचनाद्विसृष्टोऽग्निः । जीवितो राजा। तुष्टो लोकः। प्रीतः मूरिः। समयान्तरे वाक्पतिराजो मथुरां ययौ। तत्र श्रीपादस्त्रिदण्डी जज्ञे सः। तल्लोकादवगम्य आमः सूरीन् बभाषे-"भवद्भिरहमपि श्रावकः कृतः। दिव्या वाणी वः प्रसन्नैव । जानामि वः शक्तिपरमरेखां यदि वाक्पतिमप्याईतदीक्षां ग्राहयथ।” आचार्यैः प्रतिज्ञा चक्रे-" तदा विद्या मे प्रमाणं यदि वाक्पतिं वशिष्यं श्वेताम्बरं कुर्वे ।" वाक्पतिस्तु क्वास्ति, इति उच्यताम् ?। राज्ञोक्तम्-"मथुरायां विद्यते।" सूरयो मथुरायां गता बहुभिः श्रीआमाप्तनरैः सह । वराह For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy