SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailashsagarsuri Gyanmandit त्रेणाग्रे भूत्वा प्रणिपत्य सिंहाय उक्तम्-" मन्त्रिणा श्रीवस्तुपालदेवेनाहं वः समीपं केनापि गूढकार्येण प्रेषि तोऽस्मि । तेन इतो भूत्वा प्रसद्याऽवधार्यताम् ।" इत्युक्ते स किश्चिद्गत्वा पराङ्मुखो भूत्वा यावद् वार्ता श्रोतुं यतते तावन् मन्त्रिभृत्येन सिंहस्य करः स्वकरे कृत्य सहसा कंकलोहछुर्या छिन्नः। छिन्नं तं करं गृहीत्वा रे ! वस्तुपालस्य भृत्योऽस्मि । पुनः श्वेताम्बरं परिभवेरिति वदंश्चरणबलेन पलाय्य भूणपालो मन्यन्तिकमगमत् , करमदीदृशत् । मन्त्रिणा श्लाघेऽसौ । स करः स्वसौधाऽग्रे बद्धः। स्वमानुषाणि परमाप्तनरगृहे | मुक्तानि । आत्मीयपरिग्रहो भाषितः-“यस्य जीविताशा स स्वगृहं यातु जीवतु चिरम् । अस्माभिर्बलवता सह वैरमुपार्जितम् । मरणं करस्थमेव जीविते सन्देहः।" तैः सर्वैरप्युक्तम्-"देवेन सह मरणं जीवितं च । स्थिताः स्मो वयं । एतदर्थे निश्चयो ज्ञातव्यः।” ततो गोपुराणि दत्त्वा गृहं नरैः स्वावृत्तं कृत्वा स्वयं स्वसौधोपरि सज्जीभूय तस्थौ निषङ्गी कवची धनुष्मान् । ततः सिंहस्यापि परिच्छदो मिलितो बान्धवादिभूयान्। तैः सर्वैरभाणि-" गत्वा वस्तुपालं सपुत्रपशुवान्धवं हनिष्यामः इति प्रतिजज्ञे ।" चलितं जेट्ठआकसैन्यम् । यावद्राजमन्दिराने आयातं कलकलायमानं तत् । तावदेकेन ज्यायसोक्तम्-" एवंविधं व्यतिकरं यदि | राजा विज्ञप्यते तदा वरम् । माऽस्मत्सहसाकारित्वे तस्य कोपोऽभूत् ।" ततो विज्ञसं राज्ञे । राज्ञा वाता | ज्ञात्वा विमृश्य भणितम्-" अनपराधे केषामपि वस्तुपालो न पीडयति किश्चित् । युष्माभिरन्याय्यं कृतं For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy