SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra चतुर्विंशति ॥। १२ ।। www.kobatirth.org जीवितव्यं च मृत्युं च द्वयमाराधयन्ति ये । त एव पुरुषाः शेषः पशुरेष जनः पुनः ॥ १ ॥ ॥ इति महाप्रभावक श्री खपटाचार्यप्रबन्धः ॥ (५) ॥ अथ पादलिप्ताचार्य प्रबन्धः ॥ Acharya Shri Kailashsagarsuri Gyanmandir कौशलानाम नगरी, तत्र विजयवर्मा राजा नयविक्रमसागरः । फुल्लनामा श्रेष्ठी जैनः प्राज्ञो दानभटः । तस्य प्रतिमाष्ा नाम पत्नी रूपशीलसत्यनिधिवसुधा । सा निष्पुत्रत्वेन विद्यते । केनाप्युक्तम् - " वैरोट्यां देवीमाराधय " तपोनियमसंयमैस्तयाऽऽराधिता सा प्रत्यक्षीबभूव, अभिदधौ च - " वत्से ! किमर्थं स्मृताहम् ? " श्रेष्ठिन्योक्तम् — “ पुत्रार्थम् " वैरोट्योक्तं " वत्से ! शृणु, विद्याधरवंशे श्रीकालिकाचार्योऽभूत् । तस्य विद्याधरो नाम गच्छः । तत्र आर्यनागहस्ती नाम सूरिरास्ते, स सम्प्रति इमां नगरीमागतोऽस्ति क्रियाज्ञानार्णवः, तस्य पादोदकं पिब ! ” तत्र श्रेष्ठिनी भावनाभरभरिता गता । करस्थगुरुपदप्रक्षालनजलपात्रः शिष्यकः सम्मुखमागच्छन् दृष्टः । श्रेष्ठिन्या पृष्टम् — “ तपोधन ! किमेतत् ?” शिष्यकेणोक्तम् - " गुरूणां पादोदकम् " । तया पीतम् । For Private And Personal प्रबन्धः ॥ १२ ॥
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy