________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुर्विंशति
प्रबन्या
॥२७॥
उदासीना इव दृश्यन्ते।" श्यामलेन विज्ञप्तम्-"देव! अरिकृतार्थदानादमी त्वयि द्रोहपराः सम्पन्नाः।" राजाऽऽह-"तर्हि तव का चेष्टा ?" श्यामलोऽप्याललाप-"देव ! एको देवः१ अपरोऽहम् २ अन्यस्तु कलहपश्चाननो हस्ती ३ एते त्रयः कदापि न परावर्त्यन्ते।" नृपो वदति-"तर्हि संमुखीने दृश्यमाने शत्रुनृपमुद्गरघहे गजं प्रेरय।
खेडिम खूटाटालि खूटा विण खींखइ नही । दैवहतणइ कपालि साहस जुत्ता हलवलइ ॥१॥ तदैव चारण एको न्यगादीत"कुमारपाल मन चिंत करि चिंतिइ किंपि न होइ । जिणि तुहु रज्ज सम्मप्पिउ चिंतकरे सइ सोइ ॥१॥"
तत्तदीयं वचः श्रुत्वा सुशन्दं मन्यमानः पुरस्थे महाघद्देऽविशत् । नरसहस्रेण सह भञ्जन् मन् गतो गजारूढः कुमारपाल आनाकगजान्तिके । आस्फालितो गजो गजेन । लग्नः करः करेण । आस्फालितो दन्तौ दन्ताभ्याम् । एकदेहत्वमिव द्वयोरिभयोरभूत् । प्रवृत्तं युद्धं नाराचैः। द्वापपि बालेष्ठौ महोत्साही राजेभो । तथापि कलहपञ्चाननश्चीत्कारान्मुश्चन् पुनः पुनः पश्चान्निवर्त्तते । तदा चौलुक्येन श्यामल ऊचे"कथमयं निवर्तते ।।" श्यामलो गदति स्म -स्वामिन् ! श्रीजयसिंहदेवे विपन्ने ३० दिनानि पादुकाभ्यां राज्यं कृतम् । मालवीयराजपुत्रेण चाहडकुमारेण राज्यं प्रधानपावें याचितम् । प्रधानैस्तु परवंशत्वान्न दत्तम् ।
For Private And Personal