________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
हारविशुद्धि-सूक्ष्मसम्पराय यथाख्यातचारित्राणि, केवलज्ञानम्, सिद्धिगमनं च इति द्वादशस्थानानि भरत | क्षेत्रे व्युच्छिन्नानि । सप्तत्यधिके वर्षशते गते स्थूलभद्रे स्वर्गस्थे चरमाणि चत्वारि पूर्वाणि समचतुरस्रसंस्थानं वज्रऋषभनाराचसंहननं महाप्राणध्यानं व्युच्छिन्नम् । आर्यबज्रस्वामिनि दशमं पूर्व आद्यसंहननचतुष्कं च व्यपगतम् । ततः परं शनैः शनैः सर्वाणि पूर्वाणि प्रलयं गतानि । सम्प्रति अल्पश्रुतं वर्त्तते तथापि देवतादेशात्किमपि ज्ञायते । " राज्ञा विज्ञप्तम्- " यथा तथा पूर्वभचं ज्ञापयत माम् ।” गुरुभिः प्रतिपन्नम् । ततः सिद्धपुरे निजैराप्ततपोधनैः सह सरस्वतीतीरं गत्वा विजने ध्याने निषण्णाः । द्वौ मुनी दिग्रक्षायां मुक्तौ । दिनत्रयान्ते विद्यादेव्य आजग्मुः । प्रभूणामग्रे ताभिरुक्तम्- " यद्भवतां सत्त्वेन तुष्टाः स्मः । याच्यतां किञ्चित् । " सूरिभिरभाणि - " कुमारपालस्य प्राग्भवं वदत | ।" ता ऊचु:-" मेदपाटपरिसरे पर्वतश्रेण्यां परमारः पल्लीशो जयताको राज्यमकरोदन्यायी । एकदा धनकनकसमृद्धा बलीवई श्रेणी तेन गृहीता । बलीवर्दाधिपतिर्नष्टः । जयताकेन सर्व लुष्टितम् । बलीवद्दधिपतिस्तु मालवदेशं गत्वा राज्ञा सह मिलित्वा सेनां गृहीत्वा तस्यां पल्लयां वेष्टमकृत । कीटमारिः कृता । जयताको नष्टः । तस्य भार्या घटिता । तस्था | उदरं विदार्य पुत्रं गर्भमुपले आरफाल्य पल्ली ग्रामादि प्रज्वाल्य पुनर्मालवदेशं गतः । राज्ञा हृष्टेन पृष्टः' कथं कथं विग्रहः कृतः । " वाणिज्यारकेणोक्तम्- " स्वामिन् ! तत्पुरं प्रज्वालितस् जयताको नष्टः,
46
For Private And Personal
Acharya Shri Kailashsagarsuri Gyanmandir
3