________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ततः सिद्धसेनः प्राह - " भगवन् ! मां प्रवाजय । तव शिष्योऽहं वादे सभ्यसंमतं जितत्वात् । ” अथ वृद्धवादी आह - " भृगुपुरे राजसभायामावयोर्वादोऽस्तु । गोपसभायां को बाद: ? । " सिद्धसेनेनोक्तम्"अहमकालज्ञः । त्वं तु कालज्ञः । यः कालज्ञः स सर्वज्ञः । त्वयैव जितम् । " इत्येवं वदन्तं ते तत्रैव दीक्षयामास । तत्र भृगुपुरनरेन्द्रेण तं वृत्तातं ज्ञात्वा तालारसो नाम ग्रामः स्थापितः प्रौढः । नाभेयचैत्यं कारितम् | नाभेयविम्बं वृद्धवादिना प्रतिष्ठितम् । संघो जगर्ज । सिद्धसेनस्य दीक्षाकाले 'कुमुद्रचन्द्रः' इति नामासीत् । सूरिपदे पुनः सिद्धसेनदिवाकरः ' इति नाम प्रपथे । तदा ' दिवाकरः ' इति सूरेः संज्ञा । स्वातिशब्दवच्च । | वृद्धवादी अन्यत्र विहरति । सिद्धसेनस्त्वदन्तीं ययौ । सङ्घः संयुखमागत्य तं सूरिं ' सर्वज्ञपुत्रकः ' इति बिरुदे पठ्यमानेऽवन्तीचतुष्पथं नयति । तदा राजा विक्रमादित्यो हस्तिस्कन्धारूढः संमुखमागच्छन्नस्ति । राज्ञा श्रुतम् - " सर्वज्ञपुत्रकः " इति । तत्परीक्षार्थं हस्तिस्थ एव मनसा सूरेर्नमस्कारं चकार, न वाशिरो भ्याम् । सुरिश्चासन्नायातो धर्मलाभं वभाण । राजेन्द्रेण भणितम् - " अवन्दमानेभ्योऽस्माकं को धर्मलाभः ? | किमयं समर्थो लभ्यमानोऽस्ति ? " सूरिः श्रुत्वाऽभाणि "चिन्तामणिकोटितोऽप्यधिकोऽयं वन्दमानाय देवो । न च त्वया न वन्दिता वयम्, मनसः सर्वप्रधानत्वात् । अस्मत्सार्वज्ञपरीक्षायै हि मनसाऽस्मान् बन्दधाः । " ततस्तुष्टो राजेश्वरो हस्तिस्कन्धादवरुह्य सङ्घसमक्षं ववन्दे कनककोडिं चानापयत् । आचार्यैः सा न जगृहे
For Private And Personal