________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailashsagarsuri Gyanmandit
प्रबन्धः
पतर्विशति ॥१८॥
निर्लोभत्वात् । राज्ञापि न जगृहे कल्पितत्वात् । तत आचार्यानुशया सहपुरुषैर्जीर्णोद्धारे व्ययिता । राजब| हिकायां त्वेवं लिखितम्
" धर्मलाभ इति भोक्ते दूरादुच्छ्रितपाणये । सूरये सिद्धसेनाय ददौ कोटि धराधिपः ॥ १॥"
श्रीविक्रमाने अवसरे तेनैव भगवता भणितम्पुन्ने वाससहस्से सयंमि बरिसाण नवनवइ कलिए। होही कुमरनरिन्दो तुह विकमराय सारिच्छो ॥१॥
अन्यदा सिद्धसेनश्चित्रकूटमटति स्म । तत्र चिरंतनचैत्यस्तम्भमेकं महान्तं दृष्ट्वा कश्चिदमाक्षीत-"कोऽयं स्तम्भो महान् ? किंमयः ?" तेनोक्तम्-"पूर्वाचार्यैरिह रहस्यविद्यापुस्तकानि न्यस्तानि सन्ति । स्तम्भस्तु | तत्तदोषधद्रव्यमयः । जलादिभिरभेद्यो वज्रवत् ।" तद्वचनं श्रुत्या सिद्धसेनस्तस्य स्तम्भस्य गन्धं गृहीत्वा । प्रत्यौषधरसैस्तमाच्छोटयामास । तैः स प्रातरम्बुजवद्विचकास । मध्यात्पतिताः पुस्तकाः। तत्रैकं पुस्तक छोटयित्वा वाचयनाथपत्र एव द्वे विये लभते स्म। एका सर्षपविद्या, अपरा हेमविद्या। तत्र सर्षपविद्या सायथोत्पन्ने कार्य मान्त्रिको यावन्तः सर्षपान जलाशये क्षिपति तावन्तोऽश्ववारा द्विचत्वारिंशदुपकरणसहिता निःसरन्ति। ततः परवलं भज्यते । सुभटाः कार्यसिद्धरनन्तरमदृशीभवन्ति । हेमविद्या पुनरक्लेशेन शुद्धहम
॥१८॥
For Private And Personal