________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्लाघ्यतां कुलमुपैति पैतृकं, स्यान्मनोरथतरुः फलेग्रहिः। उन्नमन्ति यशसा सह श्रियः स्वामिनां च पुरुषैर्भवादृशैः॥२॥ यौवनेऽपि मदनान्न विक्रिया, नो धनेऽपि विनयव्यतिक्रमः। दुर्जनेऽपि न मनागनार्जवं, केन वामिति नवाकृतिः कृता ॥३॥ आवयोश्च पितृपुत्रयोमहानाहितः क्षितिभरः परद्रुहा । तद् युवां सचिवपुङ्गवावहं योक्तुमत्र युगपत्समुत्सहे ॥४॥ येन केन न च धर्मकर्मणा भूतलेऽत्र सुलभा विभूतयः।
दुर्लभानि सुकृतानि तानि यैर्लभ्यते पुरुषरत्नमुत्तमम् ॥५॥ अथ वस्तुपालः प्राह
देव ! सेवकजनः स गण्यते पुण्यवत्सु गुणवत्सु चाग्रणीः। यः प्रसन्नवदनाम्बुजन्मना स्वामिना मधुरमेवमुच्यते ॥६॥ नास्ति तीर्थमिहं पार्थिवात्परं यन्मुखाम्बुजविलोकनादपि । नश्यति दुतमपायपातक सम्पदेति च समीहिता सेताम् ॥७॥
For Private And Personal