SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - - "अहं राजपुत्रस्तन्मस्समीपे ब्राह्मणादय आगमिष्यन्ति । ततो भवनिर्जीववधो मांसमद्यादिप्रसङ्गश्च एल्ल्या मध्ये न कर्तव्यः । एवं कृते यतीनामपि भक्तपावमजुगुप्सितं कल्पत इति ।" सैस्तथैव कृतं यावतुरोमासान् । प्राप्तो विहारसमयः । अनुज्ञापितो वाचूलः सूरिभिः___“समणाणं सउणाणं भमरकुलाणं गोकुलाणं च । अनिओ बसहीयो सारईआणं च मेहाणं ॥१॥ | इत्यादि वाक्यैः।" ततस्तैः सह चलितो वङ्कचूल: स्वसीनां प्रापुषा तेन विज्ञप्तम्-" वयं परकीयसीमांन प्रविशाम इति।" सूरिभिर्भणित:-"वयं सीमान्तरमुपेता ते किमप्युपदिशामस्तुभ्यं दाक्षिण्यात्।" तेनोक्तम्-" यन्मयि निर्वहति तदुपदेशेनानुगृह्यतामयं जनः ।" ततः सूरिभिश्चत्वारो नियमा दत्ताः।। तद्यथा “अज्ञातफलानि न भोक्तव्यानि १ सप्ताष्टानि पदान्यपमृत्य घातो देयः २ पट्टदेवी नाभिगन्तव्या३ । काकमासंन भक्षणीयमिति ४"प्रतिपन्नास्तेन ते 1 गुरुन् प्रणम्य स्वगृहमगमत् । अन्यदा गतः सार्थस्योपरि धाट्याम् । शकुनकारणानागतः सार्थः। त्रुटितं च तस्य पध्यदनम् । पीडिता: क्षुधा राजन्याः। दृष्टश्चतैः किम्पाकतरुः फलितः । गृहीतानि फलानि न जानन्ति ते नामधेयम् । इति तेन न भुक्तानि । इतरैः सर्वैर्बुभुजिरे । मृताश्च ते किम्पाकफलैः। ततश्चिन्तितं तेन-"अहो! नियमानां फलम्"तत एकाक्येवागतः पल्लीम् । रजन्यां प्रविष्टः स्वगृहम् । दृष्टा पुष्पचुला दीपालोकन पुरुषवेषा निजपल्या सह प्रसुप्ता। For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy