________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रबन्धः
२३
चतुर्विंशति
।। अथ आभड प्रयन्धःअणहिल्लपुरे श्रीमालचंश्यः श्रेष्ठी नृपनागः। तत्पनी सुन्दरी । तयः श्रीआभडः । तस्मिन् दशवर्ष-11 देश्ये मातापितरौ द्यां गता। श्रीनष्टा । तथाऽप्यामडः सुजनाश्रितो व्यवसायज्ञ इति यवृधे । पूर्वजका कन्या लब्धा । परिणीतः । वृत्त्यर्थ मणिकारकारकाणां गृहे घुघुरान घर्षयति । लोष्टिकान् पञ्चोपार्जयति । तेषां मध्ये लोष्टिकमेकं धर्मे व्ययति । द्वौ कुटुम्बवृत्तिकार्ये । द्वौ सञ्चये विधत्ते । चतुदशेऽब्दे पुत्रो जातः। तस्याः स्तन्यप्राप्तिरल्पा । अतः छागीगवेषणाय आभडो बहिर्गामं गतः। तत्र आवाहे प्रातर्दन्तपावनं कुरुते । अत्रान्तरे आगतं अजायूथम् । ताः आवाहे सर्वाः पयः पातुं लग्नाः। पयः कम्बुधवलमपि सहसा नागवल्लीदलच्छायं जातम् । विस्मित आभडः । छागीषु पयः पीत्वा निवृत्तासु यावद् गवेषयति तावदेकस्याः कण्ठे | टोकरकं तन्मरकतरत्नगर्भ ज्ञात्वा-तेन सहसा क्रीता । बालोऽजीवत् रत्नं तु शिराणे उद्योतितं महातेजःपुञ्जमयम् । परीक्षकानां दर्शितम् । तैरमूल्यं भणितम् । तदनु जेसिङ्गदेवनृपाय अर्पितम् । तुष्टेन राज्ञा एका वर्णकोटी दापिता। नखपृष्टमात्रं हि तल्लक्षं लभते । आभडोपि तेन महर्द्धिर्जातः।सुभिक्षं च तदा। जयसिंहराज्यं तदा ऋद्धम् । आभडस्य वहिकास्तिस्रः। एका रोक्यवही, अपरा बिलम्बवही, तृतीया पारलौकिकवही।
॥१०
॥
For Private And Personal