________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandit
प्रबन्ध
पतुर्विशति
| " वस्तुपाल! म्लेच्छैर्गर्दभल्लो गईभीविद्यासिद्धोऽप्यभिभूतः। नित्यं सूर्यबिम्बनिधतुरङ्गप्रकृतराजपाटीका शिलादित्योऽपि पीडितः । सप्तशतयोजनभूनाथो जयन्तचन्द्रोऽपि क्षयं नीतः। विंशतिवारबद्धसहावदीन तु रत्राणमोक्ता पृथिवीराजोऽपि बद्धः । तस्माद् दुर्जया अमी। किं कर्ताऽसि ?।" वस्तुपाल उवाच-"खामिन् ! प्रेषय माम् यदुचितं तत्करिष्यामि ।” ततः साराश्वलक्षेण सह चलितो मन्त्री । तृतीयप्रयाणे महणलदेवीं कर्पूरादिमहापूजापूर्व सस्मार । सा तद्भाग्यात्प्रत्यक्षीभूयोवाच-"वत्सक!मा भैषीः। अबुंदगिरिदिशा यवनाः प्रवेक्ष्यन्ति । तव देशं यदाऽमी पविशन्ति तदैव तल्लविता घण्टिकाः स्वराजन्यै रोधयेथाः । तेऽथ यत्रावासान् गृह्णन्ति । तत्र स्थिरचित्तः ससैन्यो युद्धाय सरभसं दौकेथाः । जयश्रीस्तव करपङ्कजे एव ।" इदं श्रुत्वा धारावर्षायाऽर्बुदगिरिनायकाय स्वसेवकाय नरान् प्रेषयत् । अकथापयञ्च-" म्लेच्छसैन्यमबुंदमध्ये भूत्वा आजिगमिषदास्ते । त्वयैतानागच्छतो मुक्त्वा पश्चाद् घंट्टिका रुन्ध्याः ।" तेन तथैव कृतम् । प्रविधा यवनाः । यावदावासान् गृहीष्यन्ति तावत्पतितो वस्तुपालः कालः। हन्यन्ते यवनाः । उच्छलि तो बुम्बारवः। केविदन्तान्तरं अङ्गुली गृह्णन्ति । अपरे तोबां कुर्वन्ति । तथापि न च्छुटन्ति । एवं तान् हत्वा तच्छविलक्षैः शकटानि भृत्वा धवलक्कमेत्य मन्त्री स्वस्वामिनं प्रत्यदर्शयत् । श्लाधितश्च तेनायम् ।
For Private And Personal